पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोऽङ्कः ।
(परिक्रम्य नेपथ्याभिमुखमवलोक्य) आर्ये ! इतस्तावत् ।

(प्रविश्य)

नटी–(क) अय्य ! इअझि ।
सूत्रधारः-आर्ये ! गीयतां तावत् किञ्चिद् वस्तु । ततस्तव गीतप्रसादिते रङ्गे वयमपि प्रकरणमारभामहे । आर्थे ! किमिदं चिन्त्यते । ननु गीयते ।

(क) आर्य ! इयमस्मि ।

प्रभुमन्त्रोत्साहशक्त्तियुक्त्त इत्यर्थः ; अथवा क्रियाशक्तियुक्त इत्यर्थः । तस्यैव हि स्वतन्त्रनीतिनैपुणप्रयुक्ताः क्रियाः स्वस्वामिबन्धमोचनफला। इह रूपके प्रधान्येनाभिधीयन्ते, न पुनर्वत्सराजस्य क्रिया काचित् । एवञ्च यदत्र क्रियागन्धविरहिणो वत्सराजस्य सकृदपि प्रदेशो महाकविना न निबद्धः, तदत्यन्तमुचितं वेदित6यम् । नायकस्वं च वत्सराजस्य यौगन्धरायणारब्धसमग्रक्रियाफलभाक्त्वादबाधितं द्रष्टओयम् ॥ १ ॥

 आशीःप्रयोगानन्तरममुखस्यारम्भः । तच्च ‘सूत्रधारो नटी ब्रते मारिषं वा विदूषकम् । स्वकार्यं प्रस्तुताक्षेपि, चित्रोक्त्तया यत् तदामुखम्" इत्युक्तलक्षणम् । परिक्रम्येत्यादि । नेपथ्ये नाम यत्र स्थित्वा कुशीलवास्तत्तत्पात्रभूमिकाः परिगृह्णन्ति, तत् स्यलं यवनिकाप्रतिच्छन्नान्तरं रङ्गोपक्ष्लिष्टमुच्यते । नेपथ्याभिमुखमवलोकनं तदन्तःस्थितां नटमिह्वातुम् ॥

 आर्ये इति । आर्थे इति नटीं प्रति समुदाचारः । इतस्तावत् इदं तावत् । अगम्यतामितिं सामर्थ्यंगम्यम् । तावत्पदं वाक्यभूषणम् ॥

 अय्येत्यादि । अस्मि अहम् । तिङ्प्रतिरूपकमव्ययम् । इयं सन्निहिता । इदमः सन्निकृष्टवाचित्वात् । अथवा इयम् अस्मि अहं सन्निहिता भवाभीत्यर्थः ॥

 आर्ये इत्यादि। किञ्चिद् यत् किमपि तवाभिरुरुचितम् । ततः गानानन्तरम् । गीतप्रसादिते गीतेन परितोषिते । वयम् अहम् मद्वर्ग्याक्ष्च । प्रकरणं कथासंन्दर्भविशेषम् । आरभामहे प्रयोक्तुमुपक्रेस्यामहे । वर्तमानसामीप्ये लट् । श्रुत्वापि स्ववचनं तूष्णीं स्थित नटीं चिन्ताकुलामिवालक्ष्याह - आर्ये किमित्यादि । ननु गीयते, ननुशब्दः प्रक्ष्ने । किं त्वया गयिते उत न गीयत इति प्रश्नार्थः ॥