पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नन्दी  ‘आशीर्वचनसंयुक्ता नित्यं यस्मात् प्रयुज्यते ।
  देवद्धिजनृपादीनां तस्मान्नन्दीति संज्ञिता ॥’
सुत्रधारः  ‘आसूत्रयन् गुणान् नेतुः कवेरपि च वस्तुनः ।
  रङ्गप्रसाधनप्रौढः सूत्रधार इहोदितः ॥
नेपथ्यं —  ‘कुशीलवकुटुम्बस्य स्थलं नेपथ्यमुच्यते ।’
प्रस्तावना ----  सूत्रधारो नर्टी ब्रते मारिषं वा विदूषकम् ।
स्थापना वा ----  स्वकार्यं प्रस्तुताक्षेपि चित्रोक्त्या यत् तदामुखम् ॥
  प्रस्तावना वT’
शुद्धविष्कम्भः - ‘वृत्तवार्तिष्यमाणानां कथांशनां निदर्शकः ।
  संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥
  एकानेकगतः शुद्धः’
प्रवेशकः  तद्वदेवानुदात्तोक्त्या नीचपात्रप्रयोजितः । प्रवेशः’
प्रकाशस्वगते–  'सर्वश्राव्यं प्रकाशं स्यादक्ष्राव्यं स्वगतं मतम् ।’
आकाशभाषितं— ‘किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् ।
  श्रुत्वेवानुक्तमप्येकस्तत् स्यादाकाशभाषितम् ॥’
वीररसः—  ’विभावैरनुभावैक्ष्च स्वोचितैव्यभिचारिभिः ।
  नीतः सदस्यरस्यत्वमुत्साहो वीर उच्यते ॥’
विदूषकः---   विकृताङ्गवचोवेषैर्हास्यकारी विदूषकः ।’
काञ्चुकीयः-  ‘ये नित्यं सत्यसम्पन्नाः कामदोषविवर्जिताः ।
  ज्ञानविज्ञानकुशलाः काञ्चुकीयास्तु ते स्मृताः ॥
निर्मुण्डकः--  ’निर्मुण्डा नामतो ज्ञेयाः कामाविज्ञानवार्जिताः ।’


शुभम्