पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रतिज्ञायौगन्धरायणे सव्याख्याने

प्रविष्टः सूत्रधारो मङ्गलमाचरति -पात्विति । वासवदत्तायः वासवाय

इन्द्राय वासवस्य वा दत्तः अयः शुभावहो विधिः आयो लाभो वा, अर्थात् तारकामुरवधद्वारिका रश्चा येन स तथा । तारकासुरनिग्रहे सैनापत्यमङ्गीकृत्येन्द्रं राक्षितवानिति कथा स्कान्दे सुप्रसिद्धा अतिवीर्यवान् अतिशयेन वीरः नाम्ना तु ब्यपदेशेन तु वत्सराजः बत्सो बालाक्ष्चासौ राजा च वत्सराजः । गणपतिर्हि अस्य ज्येष्ठो ज्येष्ठराज इति वेदे व्यपदिष्टः--‘गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्तभिः सीद सादनम् ॥ " इति। अतः कनिष्ठ औचित्याद् वत्सराज इतीह व्यपदिश्यते । सशक्तिः शक्तय आयुधविशेषेण सह वर्तत इति सशक्तिः । यौगन्धरायणः युगन्धरस्य मिथुनरूपधारिणः शिवस्यापत्यं पुमान् । नडादित्वात् फकू । गोत्रापत्यत्वं चौपचारिकम् । अथवा युगन्धरः एर्वताविशेषः साल्वावयवो देशविशेषो वा, युगन्धरस्य सम्बन्धि यौगन्धरम् अयनं निलयो यस्य सः युगन्धरक्षेत्रप्रतिष्ठित इत्यर्थः । असंज्ञायामपि णस्वं ।परायणमितिवत् महासेनः स्कन्दः पातु रक्षतु । अर्थाद् रूपकप्रयोक्त्तृनस्मान् रूपकप्रेक्षकान् सामाजिकांश्च । रक्षणं चेह प्रकृतरूपकप्रयोगतरप्रेक्षणरूपस्वस्त्रभीष्टसिद्धया योजनम् । एतदेव मङ्गलं तन्त्रेण ग्रन्थविन्नविधाताद्यर्थमपि भवतीति सर्वविधमङ्गलसिद्धिः । ‘अयः शुभावहो विधिः' इत्यमरः ।

 अत्र क्ष्लेषघटितैः वासवदत्ता-महासेन-वत्सराज-यौगन्धरायणशब्दैस्सन्नमकपात्राणां मुद्रालङ्कारभङ्गया सूचनात् तत्सम्बद्धमिह कथावस्तु प्रतिपाद्यमिति द्योतितम्। एषा ह्यत्र कथा –-वसराजमुदयनं नाम गजमृगयाप्रसक्तं महासेनेन प्रद्योतापरनाम्नावतीश्वरेण कृत्रिमनलहस्विच्छन्दोपायप्रयोगेण नागवनादपहृत्य उजयिन्यामन्तःपुरेऽवरुद्धं तद्दुहितुर्वासवदत्ताया वीणाशिक्षणे नियुक्तं तस्यां चोपचितप्रणयं वसन्तं वसराजमन्त्री यौगन्धरायण उन्मनवेघच्छन्नः आरमसमानाश्च याभ्यां रुमण्वद्वसन्तकाभ्यां छन्नवेषाभ्यामनुसुतः प्रद्योतभटैरात्मविधेयैर्दतखाद्।य्योऽवरोधनान्मोचयामासुवासवदत्तां च स्वस्वामिना हारयामासेति ।

 किञ्च, सूचितेषु पात्रेषु नायकत्वकार्यनिर्वहकत्वाभ्यां प्राधान्यमुपगतयोर्वत्सराजयौगधरायणयोरवस्थाविशेषेऽपि विशेषणयोजनयात्र व्यञ्जयितुं शक्यः । तद्यथा—वत्सराजः नाम्न तु नाम्नैव युक्त इति शेषः । बन्धगतत्वेन हेतुना वस्तीराजनामधेयमात्रेण युक्तो न तु स्वोचितया शक्तया युक्त इति भावः । स्वाभिनि शक्त्तिहीने स्वामिशक्तीनाममात्याश्रयणौचित्यादाह--यौगन्धरायणः, सशक्तिः