पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
प्रतिज्ञायौगन्धरायणे सव्याख्याने
भवतां चाग्रतो यातः शेषकार्येषु का कथा ।
समूलं वृक्षमुत्पाट्य शाखश्छेत्तुं कुतः श्रमः ॥ २१ ॥

(प्रविश्य)

 काञ्चुकीयः-(कर्ण) एवमिव ।

 भरतरहक--प्रकाशमुच्यताम् ।

 कञ्चुकीय:---

कारणैर्बहुभिर्युक्तैः कामं नापकृतं त्वया ।
गुणेषु न तु मे द्वेषो भृङ्गारः प्रतिगृह्यताम् ॥ २२॥

 भवतामिति । भवतां च अग्रतो यातःये मया साश्चादपकृताः मां सद्योवध्यमिच्छन्ति तेषां युष्माकमेव पुरस्तान्निर्भयं प्रातोऽहम्। शेषकार्येषु क्रौशाम्बीयानादिषु । का कथा का वार्ता सुकरता किमु वक्तव्येत्यर्थः। का व्यथेति क्कचित् पाठः । महाकार्यनिर्वाहिणः क्षुद्रकार्यसाधने कः प्रयास इति सामान्यं गमयितुं विशेषं निदर्शयति--समूलमित्यादि । वध्यस्यैकाकिनो निरायुधस्य शत्रुहस्तगतस्य च सतोऽप्यात्मनः कौशाम्बीयानं सुखसाध्यं वदन् यौगन्धरायण एवं मन्यते--"मानघ्नस्यापि जामातुर्मानं संवर्धयेद् बुधः । स्वसुर्हर्त्रेऽर्जुनायापि ददुर्विचानि वृष्णयः । इति भगवद्दरायणसुभाषितस्थया प्रद्योतो दुहितृवात्सल्यनिमित्ताथा जामातृप्रियविधित्सया वशंवदो भूत्वा मामबाधमानः स्वामिपार्श्वमनुप्रेषयिष्यतीति ॥ २१ ॥

 कर्णे इति । भरतरोहकस्य कर्णे प्रथमं कथनं करिष्यमाणराजन्देशनिवेदनानुमातिग्रहणार्थम् ॥

 अनुमतिं ददाति. -प्रकाशमिति । प्रकाशम् , उच्यतां यौगन्धरायणसविधे निवेद्यताम् । अर्थाद् राजसन्देशः ॥

 कारणैरिति । त्वया, कामं नापकृतं, बहुप्रकारं छलं प्रयुक्तवतापि भवता ममापकारो न कुत इत्यनुमन्थे । मद्वद्धवत्सराजमोचनं तद्धरणं मत्कन्याहरणं च त्वया कृतं नाहमपकारं मन्य इति भावः । कृतः, युक्त्तैः उपपन्नैः । बहुभिः कारणैः । तानि च। --स्वामिनो रक्ष्चणीयता, शत्रुप्रयुक्तस्य च्छळस्य प्रतिकर्तव्यता, स्वाकीर्तेः परिहर्तव्यता, भर्तृपिण्डस्य निर्यातयितव्यता स्वाम्यभिलाषस्यानुवर्तनीयता, मत्कन्याया मत्पूर्वसङ्कल्पितभर्तृहस्तप्राप्तिरित्थेवमादीन्यूहनीयानि । गुणेषु अमास्यसाचितेषु बुद्धिमन्त्रयैर्यस्वामिभक्त्यादिषु त्वद्गतेषु मदिष्टलाभे च। मे, द्वेषः नतु अपरि-