पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१३५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२३
चतुर्थोऽङ्कः ।

 भरतरोहकः--वधाद् वसराजश्चेत् किमस्माभिः स सस्कृतः ।

 यौगन्धरायणः—एतदवेक्ष्य खलु यदस्य शरीरं नापहृतम् ।

 भरतरोहकः—-एतदपि सम्भाव्यं मन्यते स्वामी ।

 यौगन्धरायणः--कः संशयः ।

हस्तप्राप्तो हि वो राजा रक्षितस्तेन साधुना ।
नह्यनारुह्य नागेन्द्र वैजयन्ती निपात्यते ।। २० ।।

 भरतरोहकः--भवतु भवतु । महासेनस्य प्रतिकूलं कृत्वा कैौशाम्बीं प्रति का कृता ते बुद्धिः ।

 यगन्धरायण-अहो हास्यमभिधानम् ।


 वधार्ह इत्यादि । किं सत्कृत: किमवधेन पूजितः । कुतः शत्रज्ञोऽपि सन् अवधमापवान्ततो वत्सराजस्य सकारं न मन्यस इत्यभिप्रायः ।।

 अवधस्य सस्कारत्वमभ्युपगम्याह. -एतदिति । अस्य महासेनस्य । शरीरं नापहृतमिति यत् तत्, एतद् अवेक्ष्य खङ, महासेन कृतं वत्सराजावघसत्करणं गणयित्वैव । एतदनवेक्षणे तु शरीरमपहृतमभाविध्यादित्यर्थः । महासेनकृतो ह्यवधस. कारस्तदवधसकरौणामकृतेन निष्क्रीत एव वत्सराजेनेति तात्पर्यम् ।।

 एतदित्यादि । एतदपि महासेनशरीरापहरणमपि । मन्यत इति प्रश्नकाकुः ।

 कः संशय इति ।

 हस्तेति । साधुना धार्मिकेण। तेन वत्सराजेन । वः गजा महासेनः । हस्तप्राप्तो हि सन् सुखक्रमणयितां गत एव सन् । रक्षितः ३ अवधेनोपेक्षितः । महासेनस्य हस्तप्र/प्तस्वाभावे तदप्रयदुहितृहरणं बसराजस्य न साध्यमभविध्यदित्य मुमर्थमवगमयितुं तत्सरूपमप्रस्तुतमर्थमुपक्षिपति –नगेन्द्रं गजराज म् । अनारुष्य अनधःकृस्य । वैजयन्ती पताका, अर्थानगेन्द्रसमाश्रया । नहि निपात्यते ॥ २० ॥

 इत्थं बसराजस्य सापराधवे स्वोद्रविते खण्डिते तत्समर्थनसंरम्भं परित्यज्य यौगन्धरायणं प्रति रुध्यन्नह–भवत्विति । भवतु भवतु वत्सराजः सापराधो न वेति विचारो दूरेऽस्तु । त्वमेव मुख्योऽपराधी पर्यनुयोक्तव्य इति मत्वा पृच्छति-- महासेनस्येति । महासेनस्य प्रतिकूलं कृत्वा, ते देवया। कौशाम्बीं प्रति का बुद्धिः को ऽभिसन्धिः कृतः । अक्षतक्षेमः कौशाम्बीं यास्यामीति किं त्वं मन्यस इत्यभिप्रायः

 अहो इत्यादि ।