भरतरोहकः-यद्येवं, नलागिरिग्रहणार्थं विमुक्तश्चेद्, न पुनर्बद्धस्ते स्वामी ।
यौगन्धरायणः--नेति पश्यत्युपक्रोशभयात् ।
भरतरोहकः—अपरोक्षराज्यव्यवहारो भवानिति | ब्रवीति । समरावजितेषु शत्रुषु किमाह शास्त्रम् ।
यौगन्धरायणः:---- वधः ।
शिक्षितानां हस्तिविद्यानिष्णातानां । वचनेषु तिष्ठति वचनान्यनुवर्तते । वत्सराजश्र शिक्षितेऽत्तम इति सुप्रसिद्धमिति भावः । तत: तस्मात् कारणात् । स्वशरीररक्षणे स्वशररिस्य रक्षणे अर्थात् समुअद्र्भान्तभित्ततया सर्वविध्वंसनप्रवृत्तस्य नागिरेः सकाशात् पालने मुख्थे निमित्ते । विमुक्तः बन्धान्मोचितः । अर्थान्महासेनेन वत्सराजः । मोचनस्यानुषङ्गिकं फलद्वयमाह-सुहृदां यशः जीवितं च प्रदातुम् । अविमुक्ते हि वत्सराजे नलगिरिदमनासिद्धौ महासेनसुहृदां नलागिरिदमनासामर्थ्यांपवादप्रसरणात् कीर्त्तिहानिः, कीर्त्तिहानिमिया नलागिरिमभिगच्छतां जीवितहानिश्च स्यात्, तदुभयं भा भूदित्येवमर्थमित्याशयः ॥ १९ ॥
यद्येवमिति । यघेवमिस्यस्यैव प्रपञ्चनं---नलागिरिग्रहणार्थं विमुक्तश्चेदिति । ते स्वामी, पुनः पश्चात् नलागिरिग्रहणोत्तरकाले । न बद्धः विमोचनप्रयोजने निर्वृत्ते बन्धनीयो बन्धं न नीत: । एवञ्च पुनरबन्धनात् त्वरत्स्वामिनः सत्कारायैव विमोचनमिति भावः । क्काचिद् यदिशब्दो न पढ्यते । तदायमर्थः--एवमिति पृथग्वाक्यं, मन्यस इति शेषः । एवं मननमयुक्तमित्याशयेनाह--नलागिरीप्यादि । शेषं प्राग्वत् ॥
नेतीति । नेति न बन्धनीयं इति। पश्याति मन्यते अर्थात् महासेनः । कुतः पश्यतीत्यत्राह--उपक्रोशभयात् ससुहृज्जनस्यात्मनो रक्षितारं इतध्नोऽयं पुनर्बध्नातीति लोक आत्मानं निन्ददिति भयादित्यर्थः ॥
पुनरबग्घनेऽपि वत्सराजपूजाममन्यमानममृष्यन्नाह-अपरोक्षेति । अपरोक्षराज्यव्यवहारः साक्षात्कृतराज्यतन्त्रः । भवान् । इति ब्रवीति एवमर्थहीनं कथयति । राज्यव्यवहारानभिज्ञ इवेत्यार्थग् । वत्सराजसत्कारवादमङ्गीकारयितुं वाचोयुक्त्यन्तरमुपन्यसिष्यन् पृच्छति --स्मरेत्यादि ॥
वध इति , युद्धावजितेषु विषये वधोऽर्थशास्त्रे विहित इत्यर्थः ॥