पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१३३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२१
चतुर्थोऽङ्कः ।

 भरतरोहकः-भो यौगन्धरायण ! यदग्निसाक्षिकं महासेनस्य दुहितरं शिष्यां प्रतिगृह्य अदत्तापनयनं कृतं, युक्तेयं भोस्तस्करप्रवृत्तिः ।

 यौगन्धरायणः—-मा मा भवानेवम् । विवाहः खल्वेष स्वामिनः।

भारतानां कुले जातो वरसानामूर्जितः पतिः।
अकृत्वा दारनिर्देशमुपदेशं करिष्यति ॥ १८ ॥,br \>

 भरतरोहकः—अद्यापि महासेनेन प्रयुक्तसत्कारो वkसराजः। तदि दानीं किं नावेक्षते ।

 यौगन्धरायणः--मा मा भवानेवम् ।

यदस्य चाज्ञां कुरुते नळगिरिः स शिक्षितानां वचनेषु तिष्ठति ।
ततो विमुक्तः स्वशरीररक्षणे यशः प्रदातुं सुहृदां च जीवितम् ॥ १९॥

 उद्भावितेऽपराधे समाहिते तमपरमुद्भावयति--भो इस्यादि । अदत्तापन यनम् अदत्ताया अपहरणं । युक्त काकुः । तस्करप्रवृत्तिः चरकर्म ।

 मामेति । भवान्, एवं तस्करप्रवृत्तिरित्यनेन प्रकारेण । मा मा, वादीदिति शेषः । ‘मा मा भवानेवम्’ इत्यस्य स्थाने ‘शन्तं शान्तं पापम् इति काचित् पठ्यते । अपापे स्वामिनि पापारोपपरभवद्वचनश्रवणजम्यं पापं में शान्तं भवत्विति तदार्थः । स्वामिनः, एष विवाहः खलु शिष्यात्वेन परिग्रहो विवाह एव ।

 महकुळीनो राजधर्मवृत्तिर्वत्सराजो यौवनवतीं यां कामपि कन्यां पीत्वेना प्रतिगृह्य नाध्यापयेलोकापवादभयादित्यभिप्रायेणाह –भारतानामित्यादि । ऊर्ज तः बलवान् पतिभावयोग्यधर्मानुष्ठानधीर इत्यर्थः । दारनिर्देशम् इमे मे दाराः इ- यादेयं व्यपदेशं वर । करिष्यतीति काक्का न करिष्यतीत्यर्थः ।। १८ ।।

 इत्थमदतपहरणे परिहृते वत्सराजस्याकृतज्ञत्वं दोषान्तरमुद्राघायेतुमाह-- अद्यपस्यादि। प्रयुक्तसत्कारः प्रयुक्तः कुतः सत्कारः पूजा बन्धमोचनरूपा यस्य सः। तत् किं नवेक्षते तत् चिरादनुवृत्तं सत्कारकरणं, किं नावेक्षते कुतो न गणयति । अर्थाद् वत्सराजः । यद्यवेक्षते स्वसस्कर्तारं महासेनं तकन्याप्रच्छन्नहरणेन नायम न्येतेत्यभिप्रायः ।

 मामेत्यादि

 बन्धमोचनं न वत्सराजस्य सकारार्थं महासेनेन विहितं, किन्तु स्वार्थमेवे स्याभिप्रायेणाह –यदिति । यद् यस्मात् कारणात् । नळागिरिः, अस्य च वत्सराज स्यैव । आज्ञां कुरुते । कुतः कुरुत इयाकश्चयामाह—सः नळगिरिः । 16