भरतरोहकः --भवतु भवतु ।
- मन्त्रित्वे वञ्चितो ह्येष सम्याजं नीलहस्तिना ।
- प्रत्यादेष्टुं स तद्वैरं मामिदानीं प्रतीक्षते ॥ १५॥
- मन्त्रित्वे वञ्चितो ह्येष सम्याजं नीलहस्तिना ।
भटः–(क) अय्य ! एसो अमच्चो।
भरतरोहकः-(उपगम्य) भो यौगन्धरायण !।
यौगन्धरायणः—भोः ।
भटः-(ख) अहो "सरस्स गम्भीरदा । अय्यस्स एकक्खरेण पूरिदो अयं देसो ।
भरतरोहकः---(उपविश्य) भोः ! यौगन्धरायण इत्यशरीराण्यक्षराणि श्रूयन्ते । दिष्ट्या भवान् दृश्यते ।
यौगन्धरायणः—दिष्ट्या 'भवान् दृश्यत इति । पश्यतु भवान् माम्,
- एवं रुघिरदिग्धाङ्ग वैरं नियममास्थितम् ।
- गुरोरवजितं हत्वा शन्तं द्रौणिमिव स्थितम् ॥ १६ ॥
(क) आर्य ! एषोऽमात्यः ।
(ख) अहो स्वरस्य गम्भीरता । आर्यस्यैकाक्षरेण पूरितोऽयं देशः ।
भवत्वित्यादि ।
मन्त्रित्व इति । मन्त्रित्वे विषये । एषः यौगन्धरायणः । सव्याजं नीलहस्तिना सकपटं भवता नीलगजेन, कपटसृष्टनीलगजेन करणेनेति यावत् । सामर्थ्यगम्यभवतिक्रियाद्वारक इह पदार्थयोः संबन्धः । वञ्चितो हि, अर्थान्मया । सः , इदानीम् आत्मजयसमयेऽस्मिन्। तद्वैरं तन्मूलकं वैरं मत्प्रयुक्तवञ्चनमूलकं विरोधं। प्रत्यादेष्टुं सोपहासभाषणेन प्रतिकर्तु । मां प्रतीक्षते ।। १५ ।।
अय्येत्यादयश्चत्वारः संवादाः ॥
भो इत्यादि । नाममात्रं ते मया श्रुतं, न तु शरीरं दृष्टं, तदद्य दृश्यत इति प्रहृष्यामीति वचनार्थः ॥
दिष्टयेत्यादि । पश्यतु भवान् मामिति क्ष्लोकान्वयि।
एवमित्यादि । वैरं नियमं वीरसंस्बन्धिनं समुदाचारम् । आस्थितम् आ-