पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

श्रीगणेशाय नमः ।

महाकविश्रीभासप्रणीतं

प्रतिज्ञायौगन्धरायणं

महामहोपाध्याय गणपतिशास्त्रिप्रणीतया व्याख्यया समेतम् ।

( नान्द्यन्ते ततः प्रविशति सूत्रधारः।)

सूत्रधारः-
पातु वासवदत्तायो महासेनोऽतिवीर्यत्रान् ।
वत्सराजस्तु नाम्ना सशक्तिर्यौगन्धरायणः ॥ १ ॥

वन्देऽहं विघ्नराजं च वाग्देवीं च पुनः पुनः।
पूर्यन्ते यत्कृपालेशान्मङ्क्षु नम्नमनोरथाः ॥
ग्रन्थानां ये सुवर्णानामकर्कशमनीरसम् ।
तन्वान्ति निकषं चेतस्ते जयन्ति सचेतसः ॥
श्रीभासरूपकस्तोमे मया रससरस्वति ।
व्याख्या प्रतिज्ञाभिख्यया नाटिकायाः प्रणीयते ॥
अथ श्रीवाल्मीकिव्यासेदेश्थस्तत्रभवान् श्रीभासः प्रतिज्ञायौगन्धरायणाभिधानां रङ्गप्रयोगप्रधानां नाटिकां चिकीर्षुस्तदारभ्भे प्रयोगसम्यङ्निष्पत्त्यादिपरिपन्थिदुरितप्रशमौपयिकं पूर्वरङ्गप्रधानाङ्ग मङ्गलक्ष्लोकपाठम्, उपक्रम्यमाणप्रयोगस्य

कथावस्वंस्य निवेदनं च प्रयोगनिर्वाहधूर्वहेण सूत्रधारेण रङ्गे प्रथमसमाचरणीयं पश्यन् सुत्रधारस्य प्रवेशं तावद् आह-नान्द्यन्ते ततः प्रविशति सूत्रधार इति । नन्दिरानन्दः तस्या इयं नान्दी गीतवाद्यवादनादिक्रिया, तस्या अन्ते । सा हि प्रयोगारम्भे देवतापरिषदानन्दार्थानुष्ठीयते । यद्यप्युक्तव्युपरत्त्या देवस्तावकमङ्गलक्ष्लोकपाठोऽपि नान्दी भवति, तथापि सा क्ष्लोकनान्दी सत्काव्यरूपस्वाद् रङ्ग प्रयोगयोग्या रङ्ग एव प्रयोक्ष्यत इति तदतिरिक्त्तैव नान्दीह ग्राह्या । ततः तदनन्तरं नान्दीपरिसमाप्यव्यवहितोत्तरकाल इत्यर्थः । सूत्रं प्रयोगानुष्ठानं तद् धारयति निर्वाहयतीति सूत्रधारः । प्रविशति अर्थाद् रङ्गम् ॥