पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 उभौ–(क) ओदरदु ओदरदु अय्यो ओदरदु ।

(ततः प्रविशति यौगन्धरायणः बद्धबाहुः । फलकशयनेनानीयमानः ।)

 यौगन्धरायणः—अयमहमवतरामि।

रिपुगतमपनीय वत्सराजं ग्रहणमुपेत्य रणे स्वशस्त्रदोषात् ।
अयमहमपनीतभर्तृदुःखो जितमिति राजकुले सुखं विशामि ॥ ६ ॥

भोः ! सुखं खलु नि ष्कलत्राणां कान्तारप्रवेशः, रमणीयतरः खलु प्राप्तमनोरथानां विनिपातःअपश्चात्तापकरः खलु साञ्चितधर्माणां मृत्युः । मया हि, वैरं भयं परिभवं च समं विहाय कृत्वा नयैश्च विनयैश्च शूरैश्च कर्म । शत्रोः श्रियं च सुहृदामयशश्च हित्वा प्राप्तो जयश्व नृपतिश्च महांश्च शब्दः ॥


 (क) अवतरस्ववतरत्वार्योऽवतरतु ।


 ओदरदु इत्यादि ॥

 अयमित्यादि ।

 रिपुगतमिति । अयमहं, रिपुगतं शत्रुहस्तप्राप्तं । वत्सराजम्, अपनीय अपहृत्य । रणे युद्धे । स्वशखदोषात् , ग्रहणं उपेत्य अङ्गकृस्य । अपनीतभर्तुदुःखः सन्, जितमिति जयः सिद्ध इति बुद्धया । राजकुले, राजकुलमिति साघीयान् पाठः । सुखं ससन्तोषं यथा भवति तथा । विश्वामि ॥ ६ ॥

 आत्मनः कृतकृत्यस्वाच्छत्रुवशप्राप्तिरपि खेदाय न भवतीत्यमुमर्थं द्योतयितुं समान्यन्यायानाह--भोः सुखमित्यादि । सुखं सुखहेतुः । रमणीयतरः अतिशयेन हृद्यः । विनिपातः दैवादिकृतं व्यसनं । सञ्चितधर्माणामिति अनिजकरणं समासान्ताविध्यानित्यत्वात्, धर्मणामित्येव वा वाठ: कल्प्यः । मया हीति क्ष्लोकान्वाय ।

 आत्मनः कृतार्थत्वमुपपादयति-वैरमिति । मया हि, वैरं प्रद्योतेन सह विरोधं भयं, परिभवं च उन्मत्तचर्यासुलभम् अवमानं च । समं तुल्यं । विहाय अप्रकाश्य परित्यज्य अगणयित्वेति क्रमेणार्थः । नयैः नीतिभिः । विनयैः प्रश्रयैः । शरैश्च बाणैश्च । कर्म समं कृत्वा । शत्रो: श्रिथे च जयलक्ष्मी च । सुह्टदाम् अयशश्च रुमण्वदादीनाम् अकीत्ति च । समं हित्वा याजयित्वा । जयश्च, नृपतिश्र वत्सराजश्च । महान् शब्दश्च कीर्त्तिश्च समं प्रप्तः ॥ ७ ॥