पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 भटः-(उपसृत्य) (क) भो गत्तसेवअ ! को काळो तुमं अण्णेसामि । भट्टिदारिआए वासवदत्तए उदए कीळिदुकामाए भद्दवदी ण दिस्सदि । तुमं दाव मत्तो एत्थ आहिण्डसि ।

 गात्रसेवकः-(स्व) जुज्जइ। सा अ णं मत्ता, स पुरुसो वि ,मत्तो, अहं वि मत्तो, तुमं वि मत्तो, सव्वं मत्तसमं होइ ।

 भट:-(ग) सव्वं दाव चिट्ठदु। राअउळे भद्दपीठिअं णणिक्कभिअ कुदो अअं अहिण्डदि त्ति ।


 (क) भो गात्रसेवक । कः कालस्त्वामन्वेषे । भर्तृदारिकाया वासवदत्ताया उदके क्रीडितुका|माया भद्रवती न दृश्यते । त्वं तावन्मतेऽत्राहिण्डले ।

 (ख) युज्यते । सा च ननु मत्ता, स पुरुषोऽपि मत्तोऽहमपि मत्तः, त्वमपि मत्तः , सर्वं मत्तसमं भवति ।

 (ग) सर्वं तावत् तिष्ठतु । राजकुले भद्रपीठिकां ननिष्क्रम्य कुतोऽयमाहिण्डत इति ।


जाने, अस्ति नास्ति वेति मम सन्देह इत्यर्थः, सत्वासत्त्वोभयकोटिकस्य ज्ञानस्य सन्देहात्मकत्वात्। ’अत्थि अ णत्थि अ’ इति क्कचित् पाठः । वाशब्दो वाक्यपूरणाथेः सन्देहघोतक एव वा । "ततस्तदा तो ” इति षड्भाषासूत्रात् ततश्शब्दस्य तो आदेशः ॥

 भो गतेत्यादि । भद्रवती वासवदत्तावाहनभूता हस्तिनी । न दृश्यते त्वदप्रवेशितत्वाद् वासवदत्तागृहे नोपलभ्यते । आहिण्डसे परिभ्रमसि ॥

 जुज्जइ इत्यादि । ‘सा अ णं’ इत्यस्य स्थाने ’ हत्थिणी ’ इति क्काचित् पाठः । साधिक्षेपेऽप्यस्मिन् मत्तप्रलापे ‘सर्वे मत्तसमं भवति’ इत्यंशेन कार्यार्थंमहं मत्तंभावमभिनयाभि केवलं, न त्वहं वस्तुतो मत्त इति वस्तुतत्वं सूच्यते ॥

 सव्वमित्यादि । भद्रपीठिकां भद्रवतीं । भद्रवत्येव वासवदत्तोपवेशाधारत्वाद् भद्रपीठिकेति व्यपदिश्यते । ननिष्क्रम्य अप्रवेश्येत्यर्थः । इतिशब्दानन्तरं राजकुलाधिकृताः पृच्छन्तीति शेषः । ‘भद्दपीठिआ ण णिक्कमदि । कुदो अअं पिबदित्ति’ इति क्काचित् पाठः ॥ '