पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
चतुर्थोऽङ्कः।

सुरुहूण । अमुदअमळ्ळएण धिदमरिअळाणरूशिदे मंशखण्डे मुहे पक्खित्ते । अ । णुसा रज्जइ पीदा जइ । अत्ता णं दण्डुज्जुआ होइ ।

धण्णा सुशाहि मत्ता धण्णा सुराहि अणुळित्ता ।
धण्णा सुराहि हूणादा धण्णा सुराहि संञविदा ॥ २ ॥

अधण्णा अतणो पुत्तदाराणं कठ्ठं पिट्ठं सुणन्ता जे मूढा णरा सुसमिद्धा सुरातटाअं ण जोअंति । तो जाणे जमळोए वा णरअं अत्थि ण त्थि अ।


मल्लकेन धृतमारिचलवणरूषितो मांसखण्डो मुखे प्राक्षिप्तश्च । स्नुषा रज्यति पीता यदि । श्वक्ष्रूनेन दण्डोद्यता भवति ।

धन्याः सुराभिर्मत्ता धन्याः सुराभिरनुलिप्ताः ।
धन्याः सुराभिः स्नाता धन्या सुराभिः संज्ञपिताः ॥

 अधन्या आत्मनः पुत्रदाराणां कष्टं पिष्टं क्षृण्वन्तो ये मूढा नराः सुसमृद्धाः सुरातटाकं न योजयन्ति । ततो जाने यमलोके वा नरकोऽस्ति नास्ति च ।


तं माधुर्यातिशयान्मघं तत्पूर्णेन मल्लेकेन पात्रेण सह । मुखे प्रक्षिप्तश्च निवेशितंश्र । स्नुषेति । स्नुषा पुत्रभार्या । पीत। यदि कृतमद्यपाना चेद्, रज्यति श्वशुरे रागवती भवेद् , गम्यागम्यपुरुषाविवेकस्य मधुमदेन निमीलनादिति भावः । तदेतन्न सुघटं श्वक्ष्रप्रातिकूल्यादित्याह--श्व क्ष्रूः, दण्डेद्यता श्वशुरकामां स्नुषां दमयितुमुद्यतदण्डा । ननु भवति भवत्येवेत्यर्थः।‘णं’ इत्यस्य स्थाने ‘ण’ इति पाठः । दण्डोद्यता यदि न भवति श्वक्ष्रुः, तर्हि स्नुषा पीता रज्यतीति तदा व्याख्येयम् ।

 धण्णा इत्यादि । संज्ञपिताः अतिपानवशान्मारिताः। इइ सुरालेपनस्नानाघुक्त्या तस्यां लालखतिशय उक्तः ॥ २ ॥

 अधण्णा इति । अधन्याः अकृतार्थाः मवन्ति, अर्थात् ते । के इत्यपेक्षायामाइ--मूढाः धनविनियोगसमुचितस्थानानभिज्ञाः । ये नराः, पुत्रदाराणां पुत्रकलत्राणां । पिष्टम् अप्रतिनवं नित्यानुभूतामित्यर्थः । कष्टं दुःखं शृण्वन्तः सन्तः, सुसंमृद्धाः सुष्ठु स्फीतधनाश्च सन्तः। सुरातटाकं न योजयान्ति नोत्पादयन्ति, अर्थात् पुत्रदारविषयकष्टसंवितिपरिमोषकाय मधुपानाघुत्सवाय । पुत्रदाराविषयकष्टानुभवादन्या यातना यमलोकेऽप्यस्ति न वेति सन्देह इत्याह—तो इति । ततः पुत्रदारविषयकष्टं विहाय । ल्यब्लोपे पञ्चमी । नरकः दुःखं । यमलोके अस्ति नास्ति च इति