पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ चतुथोऽङ्क ।

(ततः प्रविशति भटः ।)

 भटः- को काळो अहं भट्टिदारिआए वासवदत्ताए उदए कीळिदुकामाए भद्दवदीपरिचारअं गत्तभेवअं ण पेक्खामि । भाव पुप्फदन्तअ !


 कः कालोऽहं भर्तृदारिकाया वासवदत्ताया उदके क्रीडितुकामाया भद्रवतीपरिचारकं गात्रसेवकं न प्रेक्षे । भाव पुष्पदन्तक ! गात्रसेवकं न प्रे-


अथ चतुर्थोऽङ्कः ।

 अथ यथोक्तमन्त्रनिश्चयानुरोधेन वत्सराजस्य वासवदत्तया सह भद्रवतीमधिरुह्य कौशाम्बीप्रयाणं, प्रस्थितवत्सराजानुधावनोद्यतानां प्रद्योत सैन्यानां यौगन्धरायणेन यथासङ्केतनिर्धावितोपमुतानिजगूढभटशतसहायेन समारब्धयुद्धेन प्रतिरोधनं, यौगन्धरायणस्यायुधविपस्या शत्रुग्रहणप्राप्तिः, स्वमनोरथसिद्धिसन्तुष्टस्य न्याय्यधीरोदारचतुरभाषिणो यौगन्धरायणस्य तं प्रत्यपराधानुद्भावयतो भरतरोहकस्य न चित्रः संवादःप्रद्योतेन स्वदुहितृवत्सराजयोर्गान्घविवाहं निर्वृक्तं मत्वातयोश्चित्रफलकस्थयोर्विवाहविध्यनुष्ठापनं यौगन्धरायणाय च पारितोषिकभृङ्गारदानसत्कार इत्येतावदर्थजातं चतुर्थेऽङ्के वस्तु ।

 तत्र वासवदत्तायाः स्वजनं परित्यज्य वत्सराजानुयानं प्रत्यनुकूलतायां कारणं वत्सराजगोचरा परमानुराक्त्तिः । सा कथं तस्याः प्ररूढेत्याकाङ्क्षायां तदुपपादकं कौशाम्बीप्रयाणपूर्ववृत्तं किमपि निरूपणीयम् । तत् पुनरीदृशं भवति-—यत्तद् वत्सराजबन्धमोचनं कौशाम्बीप्रयाणमिति साध्यद्वयं, तत्रोत्तरं वासवदत्ताहरणसौकर्यकालप्रतीक्षयानागतार्थे प्रकल्प्य बन्धमोचनमात्रं यथानिश्चिते काले नलागिरिचित्तोद्र्भान्त्युत्पादनयुक्स्या साधितम् । तदस्वास्थ्यपरिहरणपरमोपकारिणं च वत्सराजं कृतज्ञत्वात् प्रद्योत: पुनर्बन्धनमनीत्वैव स्वगृहेऽवरुरोध; परितुष्टश्च तं गान्धर्वविद्यापारगं वीणाभ्यासव्यसनिन्याः स्वसुतायास्तढुपदेशदेशिकमाग्निसाक्षिकं चकार । अथानुवर्तमाने वीणोपदेशे वासवदत्ताया वत्सराजेऽनुरागस्तावत् ततूपुर्गुणसौभाग्यसाक्षात्कारादङ्कुरितः पूर्वानुरागिणा तेन सहानवरतसन्निकर्षात् परिचयप्रचयाद् गुरुशिष्यभावाविस्त्रम्भनित्यसुलभाद् विविक्तावस्थानाद् अङ्गारवत्यानुकूल्याच्च परां कोटिमधिरूढः । तयोर्निवृत्तगान्धर्वाविवाहयोर्गतेषु कतिपयेष्वहोरात्रेषु.