पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
तृतीयोऽङ्कः।

(कर्णं दत्त्वा) अये शब्द इव । ज्ञायतां शब्दः।

 विक्षकः-(क) भो ! तह । (निष्क्रम्य प्रविश्य ) भो । पडिउत्तदिवसविस्सम्मेण अविरळं सञ्चरन्तो जणो दीसइ । किं दाणि करङ्क ।

 रुमण्वन्–तेन हि चतुर्दारमभिगृहं , भिद्यतां नः सङ्गतः ।

 यौगन्धरायणः--न न । अभिन्नो नः सञ्जातः । भिद्यतामरसङ्घातः । स्वकार्यमनुष्ठीयताम् ।

 उभौ--(ख) तह । (निष्क्रान्तौ । )


 (क) भोंस्तथा। भोः ! परिवृत्तदिव सविस्रम्भेणाविरलं सञ्चरन् जनो दृश्यते । किमिदानीं कुर्मः ।

 (ख) तथा ।


णो नास्मि । यद्यपि भद्रवत्याख्याया वासवदत्ता दिव्यहस्तिन्या एव हरणं वस्तुतो घटिष्यते, तथापि तञ्चिन्ताया इदानीमनुपास्थितत्वादुपस्थितनलागिरहरणं प्रतिज्ञातं, पश्चात् तु वासवदत्ताहरणं प्रत्यनुगुण्यातिशयं पर्यालोच्य तदौपवाह्यभूताया भद्रवत्या विनियोगः संप्रधारितोऽनुष्ठितश्चेति न कोऽपि दोषः । तमिथस्य स्थाने तामिति स्त्रीलिङ्गपाठः क्कचिदुपलभ्यते, तदा तु, वासवदत्ताहरणाभिसन्ध्युदयक्षण एव भद्रवतीविनियोगानुगुण्यमौचित्याद् बुद्धयारूढमिति कल्पनया ‘तां भद्रवतीम्’ इति व्याख्येयम् ॥ ९ ॥

 अये इत्यादि ॥

 भो इत्यादि । परिवृत्तदिवसविखम्भेण परिवृत्तः प्राच्याः प्रतीच्यभिमुखं । निवृत्तः यो दिवसः अपराह्न इत्यर्थः, तास्मन् विस्रम्भाद् आतपोधमशान्तिनिमित्तात् मार्गसञ्चारयोग्यत्वप्रणयात् ॥  तेन हीत्यादि । चतुर्द्वारमित्येकैकस्यैकैकेन द्वारेण निर्गमनसौकर्यमुक्तम् । भिद्यतां नः सङ्घातः, अस्माकं समवायो विक्ष्लिष्यतु ॥

 भिद्यतामित्यस्य ‘ऐकमत्यभङ्गं प्राप्नोत्वि 'त्येवविधमर्थे विदग्घभङ्गया गृहीत्वा सचमत्कारमाह--नेति । न न, भिद्यतामित्यनेन सह नञोः प्रत्ये कं सुबन्धः न भिद्यतां न भिद्यतामित्यर्थः । स्वकार्यम् . अग्निगृहान्निष्क्रमणं स्वमिसविधे मन्त्रार्थनिश्चयनिवेदनमित्येवञ्जातीयम् । स्वकर्यमनुष्ठीयतामिति क्कचिन्न पठ्यते ।

 तहेति । उभावित्यादि क्कचिन्न पठ्यते । तत्तु अपेक्षितमेव ॥