न्याय्यधीरोदारचतुरभाषिणो यौगन्धरायणस्य तं प्रत्यपराधानुद्भावयतो भरतरोहकस्य च चित्रः संवाद: प्रद्योतेन स्वदुहितृवत्सराजयोगन्धर्वविवाहं निर्वृत्तं मत्वा
तयोश्चित्रफलकस्थयोर्विवाहविध्यनुष्ठापनं यौगन्धरायणाय च पारितोषिकभृङ्गारदानसत्कार इत्येतावदर्थजातं चतुर्थेऽङ्के वस्तु ।
तत्र वासवदत्तायाः स्वजनं परित्यज्य वत्सराजानुयानं प्रत्यनुकूलतायां कारणं वत्सराजगोचरा घरमानुरक्तिः । सा कथं तस्याः प्ररूंढेत्याकाङ्क्षायां तदुपपादकं कौशाम्बीप्रयाणपूर्ववृत्तं किमपि निरूपणीयम् । तत् पुनरीदृशं भवति - यत्तद् वत्सराजबन्धमोचनं कौशाम्बीप्रयाणमिति साध्यद्वयं, तत्रोत्तरं वासवदत्ताहरणसौकर्यकालप्रतीक्षयानागतार्थ प्रकल्प्य बन्धमोचनमात्रं यथानिश्चिते काले नलागिरिचित्तोद्भ्रान्त्युत्पादनयुक्तया साधितम् । तदस्वास्थ्यपरिहरणपरमोपकारिणं च वत्सराजं कृतज्ञत्वात् प्रद्योतः पुनर्बन्धनमनीत्वैव स्वगृहेऽवरुरोध; परितुष्टश्च तं गान्धर्वविद्यापारगं वीणाभ्यासव्यसनिन्याः स्वसुतायास्तदुपदेशदेशिक मग्निसाक्षिकं चकार । अथानुवर्तमाने वीणोपदेशे वासवदत्ताया वत्सराजेऽनुरागस्तावत् तद्वपुर्गुणसौभाग्यसाक्षात्कारादङ्कुरितः पूर्वानुरागिणा तेन सहानवरतसन्निकर्षात परिचयप्रचयाद् गुरुशिष्यभावविस्त्रम्भनित्यसुलभाद् विविक्तावस्थानाद् अङ्गारवत्यानुकूल्याञ्च परां कोटिमाघरूढः । तयोर्निर्वृत्तगान्धर्वविवाहयोर्गतेषु कतिपयेष्वहोरात्रेषु वत्सराजो वासवदत्तया सह कौशाम्बीं प्रयातुं तदनुमतेन कमपि दिवसं निर्दिदेश; भद्रवर्ती च नलागिर्यन्यूनबलवेगां स्वायत्तत्वात् प्रयाणे वाहनीकरणीयां निश्चिकाय; तञ्चैतदात्मनोऽव्यवसायरहस्यै वसन्तकद्वारेण यौगन्धरायणं पुरमोपुररक्षिपुरुषानुकूल्यसंविधानदक्षं ग्राहयामासेति । तदिदं सवासवदत्तवत्सराजनिर्ममोक्तिसामर्थ्याद्, “यद्येवं नलागिरिग्रहणार्थं विमुक्तश्चेत्, न पुनर्बद्धस्ते स्वामी " “यदग्निसाक्षिकं महासेनस्य दुहितरं शिष्यां प्रतिगृह्यादत्तापनयनं कृतम्" इत्येवमादिभरतरोहकादिवाक्यसामर्थ्याच्च गम्यम्॥