पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 उभौ--ततस्ततः ।

 विदूषकः -(क) तदो पुरुसक्खन्धषरिवट्टणट्ठिदाए सिविआए पकामं दिट्ठा सा राअदारिआ ।

 यौगन्धरायणः --ततस्ततः ।

 विदूषकः -(ख) किं तदो तदो ति । बन्धणं दाणिं पमदवणं सभ्भाविअ पडत्तो राअळीळं कत्तुं ।

 यौगन्धरायणः--न खलु तां प्रति समुत्पन्नाभिलाषः स्वामी ।

 विदूषकः-(ग) भो! सङ्धआरिणो अणस्थ त्ति र्हदिसं एव्व ।


 (क) ततः पुरुषस्कन्धपरिवर्तनस्थितायां शिबिकायां प्रकामं दृष्टा सा राजदारिका ।

 (ख) किं ततस्तत इति । बन्धनमिदानीं प्रमदवनं संभाव्य प्रवृत्तो रागलीलां कर्तुम् ।

 (ग) भोः ! सङ्धचारिणोऽनर्था इतीदृशमेव ।


 तदो इस्यादि । पुरुषस्कन्धपरिवर्तनास्थितायां सत्यां पुरुषाणां शिबिकावाहिनां स्कन्धपरिवर्तने श्रमपरिहारार्थासविनिमयसमये स्थितायां निवृत्तगतौ सत्यां । प्रकामं दृष्टा यथाकाममवलोकिता । अर्थाद् वत्सराजेन । राजदारिका राजपुत्री ॥

 ततस्ततं इति ॥

 किं तदो इति । ततस्तत इति किं ततस्तत इति पुनः पुनः प्रक्ष्नो मास्तु, संक्षेपान्निवेदनीयशेषं निवेदयामीत्यर्थः । प्रमदवनं संभव्य क्रीडोद्यानं मत्वा । रागलीलां कामचेष्टाम् ॥

 पुंसः स्त्रीदर्शने सति वासनावशाद् रागः काममुद्बुध्यमानो लोके दृष्टः । सोऽस्मत्स्वामिनः स्त्रयन्तरविषयो भवन् कामं न दुष्यति; शत्रुपुत्रीविषयस्तु स जायमानोऽनर्थाय भवतीति मत्वा तस्य तद्विषयत्वाभावमात्मन इष्टं ज्ञातुं पृच्छति--न खल्वित्यादि । स्वामी, तां वासवदत्तां प्रति । समुत्पन्नाभिलाषो न खल उपजातरागो न किम् । इह प्रक्ष्नकाकुः ॥

 सङ्घेति । अनर्थाः सङ्घचारिणः अनर्थान्तरसहचराः । इति हेतोः । ईडशमेव त्वच्छङ्कितप्रकारमेव वरतु । अर्थात् तां प्रत्येव स उत्पन्नाभिलाषः संवृत्तः।