पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२.  . भोजदेवविरचितवृत्तिसमेतानि- [समा०पा - १सू० १-२ ]

अथ योगानुशासनम् ॥ १॥

अनेन सूत्रेण शास्त्रस्य संबन्धाभिधेय प्रयोजनान्याख्यायन्ते । अथशब्दोऽधिकारद्योतको मङ्गलार्थकश्च । योगो युक्तिः समाधानम् । 'युज समाधौ' । अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलर्येन तदनुशासनम् । योगस्यानुशासनं योगानुशासनम् । तदा शास्त्रपरिसमाप्तेरधिकृतं बोद्धव्यमित्यर्थः । तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः । तव्युत्पादनं च फलम् । व्युत्पादितस्य योगस्य कैवल्यं फलम् । शास्त्राभिधेययोः प्रतिपाद्यप्रतिपादकर्मोवलक्षणः संबन्धः । अभिधेयस्य योगस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः । एतदुक्तं भवति - व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते,. तत्साधनसिद्धो योगः कैवल्याख्यं फलमुत्पादयति ॥ १ ॥  तत्र को योग इत्यत आह---

योगश्चित्तवृत्तिनिरोधः ॥२॥

चित्तस्य निर्मलसत्त्वपरिणामरूपस्य या वृत्तयोऽङ्गाङ्गिभावपरिणामरूपास्तासां निरोधो बहिर्मुखेपरिणतिविच्छेदादन्तर्मुखतया प्रतिलोमपरिणामेन स्वकारणे लयो योग इत्या- ख्यायते । स च निरोधः सर्वांसां चित्तभूमीनां सर्वप्राणिनां धर्मः कदाचित्कस्यांचिद्भूमावाविर्भवति । ताश्च क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तस्य भूमयः, चित्तस्यावरणाविशेषाः । तत्र क्षिप्तं रजस उद्रेकादस्थिरं , बहिर्मुखतया सुखदुःखादिविषयेषु विकल्पितेषु व्यवहितेषु संनिहितेषु वा रजसा प्रेरितम् । तच्च सदैव दैत्यदानवादीनाम् । मूढं तमस उद्रेकात्कृत्याकृत्यविभागमगणयत्क्रोधादिभिर्विरुद्वकृत्येष्वेव नियमितम् । तच्च सदैव रक्षःपिशाचादीनाम् । विक्षिप्तं तु सत्त्वोद्रकाद्वैशिष्टयेन परिहृय दुःखसाधनं सुखसाधनेष्वेव शब्दादिषु प्रवृत्तम् । तच्च सदैव देवानाम् । एतदुक्तं भवति-रजसा प्रवृत्तिरूपं, तमसा परापकारनिरतं, सत्त्वेन सुखमयं चित्तं भवति । एतास्तिस्रश्चित्तावस्थाः समाधावनुपयोगिन्यः । एकाग्रनिरुद्धरूपे द्वे च सत्त्वोत्कर्षाद्यथोत्तरमवस्थितत्वात्समाधावुपयोगं भजेते । सत्त्वादिक्रमव्युत्क्रमे त्वयमभिप्राय:---द्वयोरपि रजस्तमसोरत्यन्तहेयत्वेऽप्येतदर्थं रजसः प्रथममुपादानं, यावन्न प्रवृत्तिर्दर्शिता तावन्निवृत्तिर्न शक्यते दर्शयितुमिति द्वयोर्व्यत्ययेन प्रदर्शनम् । सत्त्वस्य त्वेतदर्थं पश्चात्प्रदर्शनं यत्तस्योत्कर्षेणोत्तरे द्वे भूमी योगोप-

ख. नानि व्याख्या' । ख. श्च य योगः स ! ग °श्व , युक्कियो । यु' । गं. 'धो समाधानम् । । ख. कृतमि । क. भावः सं°१६ क. °स्य च त°। क. कैवल्येन । ख. प्रदृश्यन्ते । क. इत्याह । १. ख. पास्त भरो । ११ क. °खन या प।१२ क. चिबुद्धिभूमा । १३ क. भन्तरेण कोधा । १४ ख. हनदुः १५ . देवता ताम् ।१६ क. नियतं । १७ ख. यत्नस्यो ।