पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू. ५-६] .
१७९
पातञ्जलयोगसूत्राणि ।


प्रवृत्तिोदे प्रयोजकं चित्त-
मेकमनेकेषाम् ॥ ५ ॥[१]
बहूनां चित्तानां कथमेकचित्ताभिप्रायपुरःसरा प्रवृत्तिरिति
.सर्वचिसानां प्रयोजनं चित्तमेकं निर्मिमीते, ततः प्रवृत्ति-
भेदः ॥५॥

तत्र ध्यानजमनाशयम् ॥ ६ ॥
पश्चविधं निर्माणचित्तं जन्मौपधिमन्त्रतपासमाधिजाः सिद्धय
इति । तत्र यदेव ध्यानजं चित्तं तदेवानाशयं तस्यैव नास्त्या-
शयो रागादिप्रवृत्ति तः पुण्यपापाभिसंबन्धः क्षीणक्लेशत्वाद्यो-
गिन इति । इतरेषां तु विद्यते कर्माशयः ॥ ६॥

यदुक्तमनेकचित्तत्व एकाभिप्रायानुरोधश्च प्रतिसंधानं च न स्यातामिति तत्रोत्तरं सूत्रम्-प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् । अभविष्यदेष दोषो यदि चित्त- मेकं नानाकायवर्ति मनोनायकं न निरमास्यत्, तनिर्माणे स्वदोषः । न चैकं गृहीत्वा कृतं प्रातिस्विकैर्मनोभिः कृतं वा नायकनिर्माणेन निजस्यैव मनसो नायकत्वादिति वाच्यम् । प्रमाणसिद्धस्य नियोगपर्यनुयोगानुपपत्तेरिति । अत्र पुराणं भवति--

" एकस्तु प्रभुशक्त्या वै बहुधा भवतीश्वरः ।
भूत्वा यस्मात्तु बहुधा भवत्येकः पुनस्तु सः ।।
तस्माश्च मनसो भेदो जायन्ते चैत एव. हि । ( वायुपु० ६६ ॥१४३)
एकधा स द्विधा चैव त्रिधा च बहुधा पुनः ॥
योगीश्वरः शरीराणि करोति विकरोति च ।
प्राप्नुयाद्विषयान्कैश्चित्कैश्चिदुग्रं तपश्चरेत् ॥
संहरेच्च पुनस्तानि सूर्यो रश्मिगणानिव" (वायुपु० ६६३१५२) इति ॥

तदेतेनाभिप्रायेणाऽऽह-बहूनां चित्तानामिति ॥ ५॥ तदेवमुदितेषु पञ्चसु सिद्धचिसेष्वपवर्गभागीयं चित्तं निर्धारयति-तत्र ध्यानजम- नाशयम् । आशेरत इत्याशयाः कर्मवासनाः क्लेशवासनाश्च । त एते न विद्यन्ते यस्मिस्तदनाशयं चित्तमपवर्गभागीयं भवतीत्यर्थः । यतो रागादिनिबन्धना' प्रवृत्तिर्ना स्त्यतो नास्ति पुण्यपापाभिसंबन्धः । कस्मात्पुना रागादिजनिता प्रवृत्तिनास्तीत्यत आह- क्षीणक्लेशत्वादिति । ध्यानजस्यानाशयस्य मनोन्तरेभ्यो विशेष दर्शयितुमितरेषामाशयव- त्तामाह---इतरेषां विति ॥ ६॥


  1. १ क. स्व. ज, “दानाय ।