पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/96

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

अथोपायद्वयेन निरुद्धचित्तवृत्ते: कथमुच्यते सम्प्रज्ञातः समाधिरिति ।

[ विवरणम् ]

 परं साधनानपेक्षत्वात् ! वैराग्यस्य ज्ञानप्रसादमात्रत्वे ज्ञानवैराग्ययोरनन्यत्वात् तद्विपरीतयोश्च रागाज्ञानयोरनर्थान्तरत्वमेव सिद्धम् । एवं सति रागोऽप्यविद्याया एवावस्थान्तरमिति पञ्चपर्वा अविद्येत्युपपन्नं भवति ॥

 ननु चैवं बुद्धेरष्टगुणत्वं बाध्येत । षड्गुणत्वं हि ध्यानावस्थाभेदाभ्युपगमात् । ज्ञानत्वेऽपि वैराग्यस्य प्रसन्नतरत्वाभ्युपगमः । रागोऽप्यज्ञानस्यावस्थान्तरविशेषः ।

 ननु चैवं सति ज्ञानाज्ञानयोरनेकावस्थाभेदादष्टगुणत्वं पुनरपि न प्राप्नोति । नैष दोषः । फलवत्त्वप्रल्यनीकत्वनियमात् । ज्ञानावस्थाचतुष्टयस्य फलवत्त्वेन भेदनियमः । तथा अज्ञानावस्थाचतुष्टयप्रत्यनीकत्वेनाधर्मदिचतुष्टयनियम इत्यष्टगुणत्वसिद्धिः । धर्मादिप्रतिद्वन्द्विन एव हि गुणत्वेन नियम्यन्ते, नाज्ञानभेदाः सर्व एव ॥ १६ ॥

 उक्तं पुरस्तात्[१] सम्प्रज्ञातः समाधिर्वितर्काद्यनुगत इत्युपरिष्टात् प्रवेदयिष्यामः इति । सोऽवसरप्राप्त इदानीं लक्ष्यते | उपायद्वयेन निरुद्धवृत्तेः वैराग्यद्वयं परापरत्वेन व्याख्यातम् । अभ्यासस्यापि द्वित्वं सामर्थ्यादवसीयते । कथम् ? विशिष्टमसम्प्रज्ञातसमाधेरभ्यासं सूत्रेणैव वक्ष्यति-- [२] विरामप्रत्ययाभ्यासपूर्वः इति । तेन सालम्बनविषयः पूर्वाभ्यास इति निश्चीयते । वक्ष्यति च -तत्प्रतिषेधार्थम् [३] एकतत्वाभ्यासः इति ॥

 भाष्यकारोऽप्यवादीत्-‘वैराग्येण [४]

विषयस्रोत: खिलीक्रियते । विवेकदर्शनाभ्यासेन कल्याणस्रोत उद्धाट्यते"' इति । नावोचत वृत्तिस्वरूपतिरस्कारमेव सम्प्रज्ञातसमाधेः । वृत्तिनिरोधप्रभवत्वमनिष्टविषयप्रवृत्त्युपरमोत्तरकालभावित्वापेक्षया, वृत्तिविषयविशेषानुगत एव हि सः ।

 तथा च द्वितीयसूत्रे सम्प्रज्ञातस्य निरोधो न लक्षणमिति व्याख्यातम् । अतः पूर्वोक्ताभ्यासवैराग्योपायद्वयेन निरुद्धवृतेश्चित्तस्य कथमुच्यते-कथं


       

  1. प्रथमसूत्रव्याख्यानावसरे
  2. पा 1. सू. 18.
  3. पा 1. सू. 32.
  4. पा 1. सू. 12.