पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/95

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५
समाधिपादः प्रथमः



[ भाष्यम् ]

 दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासातू तच्छुद्धिप्रविवेकाप्यायितबुद्धिः गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति | तद्द्वयं वैराग्यम् । तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम् । यस्योदये सति योगी प्रत्युदितख्यातिरेवं मन्यते---प्राप्तं प्रापणीयं, क्षीणाः क्षेतव्याः’ क्लेशाः, छिन्नः श्लिष्टपर्वा भवसङ्क्रमो यस्याविच्छेदाञ्जनित्वा म्रियते मृत्वा च जायत इति । ज्ञानस्यैव परा काष्ठा वैराग्यम् । एतस्यैव हि नान्तरीयकंकैवल्यम् इति ॥ १६ ।।

[ विवरणम् ]

परमिति पूर्वोक्तवैराग्यादुत्तरकालभावीति । यदि वा-तस्य विषयनिमित्ताभ्यामुत्कृष्टनिमित्तविषयत्वात् , कैवल्यस्य वा प्रत्यासन्नतरत्वात् परमुत्कृष्टम् ।

  किं निमित्तमस्येत्याह—पुरुषख्यातेर्निमित्तात् । किंविषयमित्याह— गुणवैतृष्ण्यमिति। गुणेषु सत्त्वादिषु वैतृष्ण्यम्। दृष्टानुश्रविकविषयदोषदर्शीति। पूर्ववैराग्यनिमित्तविषयपरामर्शनमस्य विषयनिमित्तभेदविवेकार्थम् । पुरुषदर्शनाभ्यासात् निमित्तात् । तच्छुद्धिप्रविवेकाप्यायितबुद्धि: । तदिति पुरुषदर्शनं परामृश्यते । तस्य शुद्धिः तच्छुद्धिः निर्णिक्तक्लेशादिमलत्वम् । अथवा तस्य पुरुषस्य शुद्धिस्तच्छुद्धिः । तच्छुद्धेस्तदालम्बनदर्शनं प्रविविच्यते । तत्प्रविवे केनाप्यायिता बुद्धिरस्य योगिनः ॥

  गुणेभ्य इति विषयप्रतिपादनम् । पूर्वस्तु दृष्टानुश्रविकविषयभ्यो(ऽपि) विरक्तः । एष तत्कारणेभ्यो गुणेभ्य एव । व्यक्ताव्यक्तधर्मकेभ्यः महदादिसंस्थिता व्यक्तधर्मकाः । प्रधानावस्थिता अव्यक्तधर्मकाः । तेभ्यो विरक्त इति । तत् द्वयं वैराग्यं पूर्वमिदं च । तत्र यदुत्तरं पुरुषदर्शननिमित्तें गुणविषयं तज्ज्ञानप्रसादः मात्रम् । पुरुषदर्शनस्यैव परः प्रविवेक इति यावत् ॥

  पुरुषदर्शी हि हेयोपादेयशून्यचित्तो भवति । तदाह---*'प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेधर्मर्मेघेः समाधिः' इति ॥

  यस्योदये यस्य वैराग्यस्योदये । प्रत्युदितख्यातिः प्रत्युत्पन्नदर्शनः । एवं मन्यते प्राप्तं प्रापणीयम् इत्यादि । एतस्य हि नान्तरीयकं केवल्यं ततः


 1.पा. 4.सू. 29.