पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/94

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
पातञ्जलयोगसूत्रभाष्यविवरणे

[भाष्यम्]

स्त्रियोऽन्नं पानमैश्चर्यमिति दृष्टविषये वितृष्णस्य, स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तावानुश्रविकविषये वितृष्णस्य दिव्यादिब्यविषयसम्प्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसंख्यानबलात् अनाभोगात्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥


[ सूत्रम् ]

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ ६१ ॥

[ विवरणम् ]

 दृष्टश्चासौ विषयश्च तस्मिन् ॥ कः पुनरसौ ? स्त्रियोऽन्नं पानमैश्चर्यमिति व्यक्त्यपेक्षया । शब्दादीनामानन्त्येऽपि रागप्रबलत्वमेतेष्वतितरामिति स्त्र्यादिग्रहणं प्राधान्यात् । अत्र हि प्रबलतरो रागः । स प्रयत्नतरेण निषेद्धब्यः । एवम् आनुश्रविकविषयः । आनुश्रविको नाम आगमिक इह । स च स्वर्गादिप्राप्त्यानुभवनीयः प्रकृतिलयगतःभोग्यो वैदेह्मप्राप्तौ उपभोग्यश्च ॥


 ननु च वैतृष्ण्यमेव वैराग्यम् , तथा १रागस्तृष्णा गर्द्वः इति हि वक्ष्यति२ । न-अवस्थाविशेषस्य विवक्षितत्वात् । तथा च यतमानसंज्ञा, व्यतिक्रान्तसंज्ञा, एकेन्द्रियसंज्ञा, वशीकारसंज्ञेति चतसृणामासां सामान्यसंज्ञा वैराग्यमिति । एवं सति दृष्टानुश्रविकविषयवितृष्णस्येत्येतदुक्तं भवति- अधिगतपूर्वावस्थात्रयस्य चतुर्थी या अवस्था सा त्विह वैराग्यमिति विवक्षितम् । तस्मादिह वैतृष्ण्यादन्यवैराग्यमभिप्रेतम् । तथा च दर्शयति--विषयदोषदर्शिनः दोषदर्शनस्य विषयनिवृत्तिहेतुत्वात् तद्गुणदर्शनं हि रागकारणम् । प्रसंख्यानबलात्-तदोषदर्शनाभ्यासबलात् । अनाभोगात्मिका विषयाब्यतिकरात्मिका । दिव्यादिव्ययोः सम्प्रयोगेऽपि हेयोपादेयशून्या रञ्जनावमुक्तस्येव स्फटिकस्य विषयरागविमुक्तस्य चित्तस्यावस्थानम्। वशीकारसंज्ञा-वशीकर्तुं शक्यन्तेऽस्यामवस्थायां सर्वे गौणा: पदार्था: वशीकर्तव्यत्वेन संज्ञायन्ते, वशीकृतनि च तस्यामवस्थायामिन्द्रियाणि संज्ञायन्ते, वशीकरणं वा संज्ञायतेऽस्यामिति ॥ १५ ॥


 तच्च द्विविधम्-परं चापरं च विषयनिमित्तभेदेन । अपरं व्याख्यातम् । अधुना परमुच्यते--तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् । तदिति वैराग्यं परामृश्यते ।


 1.पा 2. सू . 7

  2. भाष्यकार: !!