पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/90

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 किं प्रत्ययस्य चित्तं स्मरति, आहोस्वित् विषयस्येति । ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासः तञ्जातीयकं संस्कार मारभते । स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृर्तिं जनयति ॥

[ विवरणम् ]

तत्र प्रत्ययस्मरणयोर्विषयाकारावभासाविशेषात्, किङ्कृतस्तयोर्भेद इति तद्विवेकं प्रदर्शयितुकाम आह--किं प्रत्ययस्य चित्तं स्भरतीत्यादि ॥

 यद्यप्यनुभूताननुभूयमानविषयत्वेन विवेकः, तथापि सादृश्यनिमित्तां भ्रान्ति तयोः कार्यकारणत्वप्रदर्शनाय निवर्तयति । एतदेव च वैनाशिकानां बहिरर्थानुपपत्तेर्बुद्धिकारणम् । किं प्रत्ययस्य स्मरतीति कर्मण्युभयत्र षष्ठी । चित स्मरतीति पुरुषकर्तृत्वं निवारयति स्मृतिग्रत्यययोरेककर्नुत्वप्रदर्शनार्थम् । न हि पुरुषस्य प्रत्ययकर्तृत्वं स्मृतिकर्तृत्वं च । दृश्यत्वात् प्रल्ययानाम् । दृश्यानां च स्वात्मातिरिक्तदृश्यत्वं घटादिवदिति वक्ष्यामः |

 किञ्चातः ? यदि विषयस्य स्मरति, प्रत्ययस्यापि विषयविषयत्वादनर्थान्तरै स्मृतिः प्रल्ययात् । अथ प्रल्ययस्य स्मरति, तदा त्विदमयुक्तम् अनुभूतविषयासम्प्रमोष इति । तदा ह्यनुभवासम्प्रमोष इति स्यात्तत्राह-ग्राह्योपरक्तः ग्राह्येो विषय आलम्बनम् , तेनोपरक्तः लाक्षाद्युपरक्तस्फटिकवत् । ग्राह्यग्रहणो. भयाकारनिभसः ग्राह्यस्य च घटादेः पृथुबुद्नाद्याकारेण स्वेन चावभासरूपेणोपञ्जायमानत्वादुभयनिर्भसः ॥

 स च प्रत्यय उत्पद्य विनिवर्तमानः स्वाश्रये प्रत्ययिनि संस्कारमादधाति । स च संस्कारः कारणानुविधायित्वादुभया(पात)कार एव । स्वव्यञ्जकाञ्जन इति । संस्काराधायिनः प्रत्ययस्य हेतुभूतं यत् कर्म दत्तफलं तत्तुल्यजातीयं यत्कर्मान्तरं फलप्रदानायाभिमुखीभवति तत् स्वव्यञ्जकम् । तथा च वक्ष्यति "ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम्" इति । तत्कर्मप्रत्युपनीतं वा सादृश्यप्रणिधानादि । स्वेन व्यञ्जकेनाभिव्यज्यत इति स्वव्यञ्जकाञ्जनः | ग्राह्यग्रहणात्मिकां स्मृर्तिं जनयति । अन्यथा तद्वयञ्जकस्य कर्मणो विपाकानुपपत्तिः ।


1. पा 4. सू 8. 2. ग्राह्मग्रहणोभयात्मिकामू इति मुद्रितभाष्यग्रन्थपाठ: