पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/89

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९
समाधिपादः प्रथमः

[ सूत्रम ]

अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ ११ ॥

[ विवरणम् ]

 किञ्च-स्वप्नस्य चित्तवृत्तिता स्वसंवेद्येति नाशङ्कैवोपपद्यते । तथा च चित्तवृत्तितामाशङ्क्याह-सा तुचि सं]प्रबोधे प्रत्यवमर्शादित्यादि । तस्मात् प्रत्ययविशेषो निद्रा । न हासति प्रल्ययविशेषे परामर्श युक्तः ! अस्ति चार्य प्रबुद्धस्य प्रत्यवमर्शः ‘सुखमहमस्वाप्सम्' इत्यादिः । प्रत्यवमर्शो नाम किमप्यन्वभूर्वामिित प्रत्ययालोचना । नानुभवाभावे सा भवेत् । नपि तद्विषयाः स्मृतयो युक्ताः । निद्राया अप्रत्ययत्वे-प्रज्ञां विशारदीकरोति मनः, मनसः कर्तृत्वं, स्त्यानं स्तिमितम् अकर्मण्यम्, गुरुगुरूणीति प्रकारे गुणवचनस्य इति द्विर्वचर्ने गुरुप्रकाराणि, अलसं मुषितमिव मल्लेनापहृतमिव, एतानि प्रत्ययानुभवकार्यणि न स्युः । काश्चन स्मृतयः कानिचित् कार्याणि केचन प्रत्यवमशः । तदेतत्त्रयमपि भाष्यकारोपन्यस्तं प्रत्ययविशेषत्व एवोपपद्यते ॥

 किञ्च—गर्भगृहादिषु चादृष्टबाह्मनिमित्तानामसति विशेष चिरमई सुप्तवान् क्षिप्रमिति च परामर्शोऽन्यथा न युज्यते ॥

 ननु च नात्र स्मृतयः, स्मृतीनाम् अन्वभवमित्येवंविशिष्टत्वात् । न हि सुषुप्तादुत्थितो विशेषं स्मरति--अत्रोच्यते--बालस्येह जन्मन्यननुभूतस्तन्यसंबन्धस्य जन्मानन्तरमेव तस्याभिलाषो दृश्यते । न च| [स] स्वाभाविकः | अबालानां स्मृतिपूर्वप्रवृत्तिदर्शनात् । तथेहापि । तस्मात् प्रत्ययपूर्वकः सुषुप्तविषयः प्रत्यवमर्शः, प्रत्यवमर्शत्वात् जाग्रदुपलब्धविषयप्रत्यवमर्शवत् । तथा सुषुप्तोत्थितस्य गात्रगौरवादि कार्य दुःखाद्यनुभवपूर्वं, गात्रादिविषयगौरवादिकार्यत्वातू प्रसिद्धदुःखानुभवकार्यगात्रगौरववदिति प्रत्ययविशेषो निद्रेति सिद्धम् ॥ १० ॥

 स्मृतिमिदानीं व्याचष्टे--अनुभूताविषयासम्प्रमोषः स्मृतिः । स्मृतेः प्रमाणादिसर्ववृत्तिकार्यत्वादन्ते निवेशः । अनुभूतश्वासौ विषयश्च अनुभूतविषयः । योऽसावनुभूतः स एव विषयः, न पुनर्यो विषयः स एवानुभूत इति । तथा च स्मृतेरशब्दादित्वात् स्मृतिविषयायाः स्मृतेरस्मृतित्वं प्रामोतीति । इष्यते च स्मृतिविषयाऽपि स्मृतिः स्वसंवेद्यत्वात्अ अनुभूतविषयस्यासंप्रमेषोऽनपहरणमतिरोभावुः । पारोक्ष्येऽपि सादृश्यादिनिमित्तापेक्षयाऽनुभूतस्य विषयस्य दृश्यमानवदवभासः स्मृतिः॥


1. पाणि. सू. 8. 1. 12.