पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/82

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
पातञ्जलयोगसूत्रभाष्यविवरणे

 अथ पुनर्घटादिप्रत्ययवद्वस्तुत्वं प्रमाणत्वं च, तदा स्यादिति ॥

 तत्र कीदृशं वस्त्विति विचार्यते -

 किं गोगवययोरनुवृत्तमेकं सादृश्यं गेत्वगवयत्वाभ्यामन्यत् ? ते एव वान्योन्यविशिष्टे, यदि वा ताभ्यां भिन्ने गेगवयाधारे द्वे सादृश्ये परस्परानपेक्षे, सापेक्षे वा ?

 किं व्यक्तिरेव साऽन्यतरजातिविशिष्टा वा, किं जातिः,सा चान्यतरव्यक्तिविशिष्टा, व्यक्तिद्वयविशिष्टा वा, संबन्धो वैतेषां यथाविकल्पयोगमित्येकैकान्योन्यविशिष्टविशेषणत्वादिना भूयांसोऽन्येऽपि विकल्पा उद्भावयितव्याः । तत्र यद्येकं सादृश्यमुभयगतं, तदा नोपमेयत्वमेकत्वात्, यथा गौरिव गैरिति ।

 अथ तेनान्यतरव्यक्तिरुपमीयेत-नैतदपि-स्वात्मगतत्वात् गौरिव गोत्वेन । अथ तद्वत्या व्यक्त्या व्यक्त्यन्तरमुपमीयेत-नैतदपि-- न हि गोत्वं खण्डमुण्डोपमेयत्वकारणम् । अथ धर्मान्तरापेक्षया सादृश्यं तद्बुद्धेः कारणमिति, नष्टं तर्हि सादृश्यं, स एवास्तु धर्मः तद्बुद्धेः किं ते सादृश्यहतकेन कल्पितेन ॥

 किं च---स चाप्यपेक्ष्यमाणो ' धर्मः किमेकः सादृश्यवदुभयत्र, अथ भिन्न इत्येवमादिविकल्पाः स्युरित्यसम्भवः पूर्ववदेव । अथ भिन्नं सादृश्यमुच्येत-तच्च न-भेदादेव, न हि भवति गौरिवाश्व इति । यथैवैकैकत्वादघटमानता तथा बहुभिरपेक्ष्यमाणैः । एतेन जातिव्यक्तिसम्बन्धादयः पूर्वविकल्पिताः प्रत्युक्ताः ॥

 अथ बुद्ध्युत्पत्त्यन्यथानुपपत्त्या सादृश्यकल्पना, सत्येवं वनविवरपूर्वदक्षिणोत्तरादिबुद्धियोगान्यथानुभवात् [न्यथानुपपत्त्या]वस्तुत्वं किं न कल्प्यते । स्यादेषा तव बुद्विर्वृक्षादय एव तत्र तद्बुद्धिजन्महेतव इति । यद्येवं मिथ्याप्रत्ययो गवयेन सदृशी गौरिति वनबुद्धिवत् । अथ ये व्यावृत्ताः क इहोपमार्थ: गौरिवाश्व इति । अथोभयेऽपि तेऽवयवा व्यावृत्तानुवृत्तात्मानस्तद्बुद्धिहेतवः', तथापि वनप्रत्ययवदेव प्राप्तम् ॥

 तस्मात् परीक्ष्यमाणं नातिविमर्दनक्षममिति त एवावयवा उभयत्रोपलभ्यमाना भूयांसः सादृश्यबुद्धेः कारणं वनबुद्धेरिव पादपाः [इति] नोपमानं नाम प्रमाणान्तरमिति सिद्धम् ॥

 नापि प्रमेयद्वित्वात् प्रमाणद्वित्वकल्पनम्। कुतः ? प्रमाणवशादर्थप्रतीतेः । न ह्यर्थवशात् प्रमाणकल्पना । यदि चार्थवशात् प्रमाणकल्पना स्यात्, अधुना