पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/80

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 आप्तेन दृष्टोऽनुमितो वाऽर्थः परत्र स्वबोधसंक्रान्तये शब्देनोपदिश्यते, शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः ।  यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते । मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥ ६ - ७ ।।

[ विवरणम् ]

 अथवैतस्मिन् प्रयोगे व्यतिरेकविपर्ययदर्शनेन दोषाभाव इत्युपन्यस्तम् । लक्षणस्य च लक्ष्यविशेषेणोह्यत्वाददेषः ॥

 आप्त: परानुजिघृक्षाप्रयुक्तो दोषरहितो दृष्टानुमितार्थ: ।तेन दृष्टो वा अनुमितो वार्थ: परत्र श्रोतृविशेषे स्वबोधसङ्क्रान्तये स्वाधिगमसंक्रमणाय शब्देन शब्द इति वाक्यं ततो विशिष्टार्थप्रतिपत्तेः । तस्मात्तदुपदिष्टाद्वाक्यात् । [तदर्थविषया] वाक्यार्थविषया या चित्तवृत्तिः सा अनुमानवदेव "सामान्यावधारणप्रधाना" ॥

  इत्थमाप्त्यादिधर्मग्रह्मणपूर्विका श्रोतुरागमः, न वक्तुः । दृष्टानुमितार्थो हि वक्ता, तस्य लैङ्गिकमैन्द्रियकं वा तज्ज्ञानम् । श्रोतुरेव तु श्रवणपूर्वकं निश्चितं विज्ञानं_ छैङ्गिकैन्द्रियकव्यतिरिक्तम् । स आगमः [न] प्रत्यक्षमिन्द्रिया[विषय]- विषयत्वात् यथाभिहितलिङ्गलिङ्गिसंबन्धनिरपेक्षत्वाच्च नानुमानम् । न हि स्वर्गापूर्वदेवतादिशब्द(ब्देऽ)र्थान्वितं ज्ञानमासादितलिङ्गलिङ्गिसंबन्धपुरस्सरमुपजायते । फलं तु सर्वत्र पैौरुषेयो वृत्तिबोध एव ।

 यस्य आगमस्य वक्ता आगमाख्यवृत्त्युत्पतिनिमित्ते शब्दोच्चारणात् आगमस्य प्रयेागोपन्यासेन प्रतिपादितं फलं तु पूर्ववदेव। यदप्येक एव प्रयेागस्त(था)- दापि साध्यसाधनाभवमात्रस्य विवक्षितत्वान्न विपरीतव्यतिरेकदर्शनादित्युच्यते ॥

 अश्रद्धेयार्थवक्त्रभिहितत्वेनागम एव विशेष्यते ।।' कथमसावश्रद्धेयार्थो वक्तेत्यत अह--न दृष्टोऽनुमितो वार्थः तेन वक्त्रा । शिष्टलोकप्रसिद्धान्यथाप्रतिपादनात् बुद्धार्हतादिः । न हि रागादिदोषानुपहतान्त:करण: प्रसिद्धमन्यथा निर्वर्णयति । स आगमः प्लवते आभासीभवति ।

 यद्यपि प्रत्यक्षानुमानविषयाभासदर्शनं स्वशब्देन न कृतं, तथाप्यागमाभासोपप्रदर्शनेनैव पूर्वत्रापि यथाभिहितलक्षणविपरीतत्वेन प्रत्यक्षानुमानाभासादि द्रष्टव्यमर्थादुक्तम् ॥