पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/74

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
२४
पातञ्जलयोगसूत्रभाष्यविवरणे

 किं च-हानेपादानाभावमात्रत्वादभाव एवोपेक्षा । न चाभावः प्रमाणस्य वस्तुनः फलं भवितुमहति । रागद्वेषाभ्यां चोपादानपरित्यागबुद्धी । तदभावात् कारणाभावे कार्याभाव इति प्रमाणविज्ञाने सत्यपि हानोपादानबुद्ध्यभाव एवोपेक्षेति व्यभिचारान्न हानादिबुद्धिफलत्वम् ॥

  किं च-रागद्वेषतदभावानामप्युपादानादिबुद्धिफलत्वे प्रमाणत्वप्रसङ्गः । पौरुषेयचित्तवृत्तिबोधफलत्वे तु न किञ्चिद्विरुध्यत इति ॥

 ननु च चित्तवृत्तेः संवेद्यत्वमसिद्धम् । न हि करणमेव कर्म भवति । न हि दात्रमेव लूयते । नैष दोषः । क्रियाकारकयोर्भिन्नधर्मत्वात् । क्रियानिर्वृत्तिं प्रति सम्भूय कारकाणि व्याप्रियन्ते परस्परं विषयविषयिभावेन । क्रिया तु सत्तामात्रेणैव फलहेतुरिति करणत्वमस्यामुपचयेंते, न कारकवत् । कुर्वद्धेि कारयेदिति क्रियाधिकारकं स्यान्न भूतं भव्यायोपदिश्येत ॥

 किं च-अनवस्थाप्रसङ्गश्च । क्रिया चेत् करणं स्यात्, तन्निर्वर्त्यया चान्यया क्रियया भवितव्यम् । न ह्यन्यां क्रियामन्तरेण तस्याः कारणत्वं घटते । यापि चान्या सापि कारणं स्यादन्यस्याः क्रियायाः । साप्यन्यस्या इत्यनवस्था । ततश्व क्रियासन्तानानुपरमात् फलानभिनिर्वृत्तिः । तत्रान्त्या चेत् क्रियान्तरेण विना फलहेतुर्भवेत्, प्रथमस्य तथात्वे कः प्रद्वेषः ? चित्तवृत्तेस्त्वभिव्यञ्जकत्वात् संवेद्यतेत्यदोषः ।

 दृश्यते चाभिव्यञ्जकानां स्वरूपसंवेद्यतयैव करणत्वं प्रदीपादीनाम् । तथा चित्तवृत्तेरपि । चक्षुरादिष्वभिव्यञ्जकत्वेऽपि अग्रहणाद्व्यभिचार इति चेत्, समान (चेतनसमान) जातीयसंकरात् कथम् ॥

 येषां तावद्भौतिकानीन्द्रियाणि, तेषां चक्षुषस्तैजसत्वात् बाह्येनालोकेन तुल्यजातीयेन व्यतिभेदात् गृह्यमाणस्यैवाविवेकः । यथा प्रदीपानां बहूनां प्रभाव्यतिभेदात् कस्य का प्रभेति न विविच्यते । तथा श्रोत्रादिष्वपि ।

 येषामप्यभौतिकानि, तेषामप्यभिव्यञ्जकत्वेन समानजातीयता वृत्तेरभिव्यञ्जकत्वादग्रहणमिति । तन्न-प्राप्तचैतन्योपग्रहतयाऽविभाव्यत्वादव्यवहितत्वाच्च । सर्वगतत्वेऽप्यात्मनः सूक्ष्मत्वेन स्वच्छतरत्वेन च चित्तेनाव्यवधानाच्च ग्रहणं चित्तवृत्तेस्तस्माच्चित्तवृत्तिप्रमाणेनैव तदाकारतया पौरुषेयोऽपि बोधः संवेद्यमान एव फलमिति सिद्धम् ॥