पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/69

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१९
समाधिपादः प्रथमः



[ भाष्यम् ]

 इन्द्रियप्रणालिकय़ा चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशषात्मनोऽर्थस्य विशषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् ।

[ विवरणम् ]

प्रत्यक्षम् । अतस्तल्लक्षणमेवाभिधीयते । तत्पूर्वकत्वात् भेदद्वयस्य ॥ इन्द्रियप्रनाडिकया ॥ इन्द्रियमिति श्रोत्रादिपञ्चकं न कर्मेन्द्रियं, तस्य चित्तवृत्त्यहेतुत्वात् । क्रियार्थं हि तत् । तस्मादिन्द्रियशब्दस्य सामान्यार्थत्वेऽपि चित्तवृत्तेरुपव्याचिख्यासितत्वाच्छ्रोत्रादिविषयतैव । वृत्त्यर्थस्वाञ्च श्रोत्रादीनाम्। इन्द्रियोमेव प्रनाडिका द्वारं शब्दाद्याकारवृतिरूपेण परिणममानस्य चित्तस्य । अतस्तत् तेनेन्द्रियद्वारेण सामान्यविशेषात्मकबाह्यवस्त्वाकारतया परिणममानमुपरज्यते । तस्य तदुपरागद्धेतोः चित्तस्य या मुद्राप्रतिमुद्रावत् वृत्तिः सामान्यविशेषात्मकवस्तूपरागेऽपि विशेषावधारणप्रधाना सैव प्रत्यक्षं प्रमाणम् ॥

 अथ स्वविषयसामान्यविशेषावभासनसामर्थ्ये श्रोत्रादीनां चित्तस्य च किंकृतं विशेषावधारणप्राधान्यमिति ?

 उच्यते-विशेषप्रतिबन्धत्वात हानोपादानादीनां विशेषावधारणप्रधाननतेति (तेत्याह)। न सामान्यं नावधार्यते, गुणभूतं तु गृह्यत एव । यथा नीलं रूपमिति नीलावधारणप्राधान्ये सत्यपि रूपमेव नीलमिति गुणभूतमवधारयति । तथा दु:खशब्दः सुखशब्दो मूढ़: शब्द इति । तथा च विशेषावधारणप्रधाना वृत्तिरिति ह्युपपद्यते ॥ किं च-संशयविपर्ययनिमित्तत्वाच्च सामान्योपलब्धेः। सामान्ये ह्युपलब्धे बुभुत्सितविशेषस्य संशयो जायते, समुपलब्धसामान्यान्यस्मृतेर्वा विपर्ययः,समधिगतविशेषस्य तु संशयविपर्ययौ न स्थितिमुपाश्नुवाते, इति विशेषावधारणप्रधानतोच्यते।।


 यत्रापि सामान्यमेवावादिधारयिषितं गौरिति वा अश्व इति वा, तत्राप्यन्यतरपरित्यागेनान्यतरावधारणेति विशेषावधारणप्रधानतैव । सर्वमेव हि वस्तु वस्त्वन्तरापेक्षया सामान्यं विशेषश्च ॥

 यस्य पुनः सामान्यमवस्त्वध्यारोपितमेवोषराम्बुवत्, नेन्द्रियविषयामिति, तस्य प्रतिनियतसामान्याध्यारोपणानुपपत्तिः । न ह्यनुपलब्धपूर्व