पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/66

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१६
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

पुरुषस्य स्वामिनः । तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः संबन्धो हेतुः ॥ ४ ॥

[ विवरणम् ]

 किं चास्य ज्ञानस्यापि ज्ञेयत्वाभ्युपगमादनवस्थाप्रसङ्गः । न हि ज्ञानमन्येन करणभूतेन ज्ञानेन विज्ञातुं शक्यं, तदप्यन्येन तदप्यन्येनेत्यनिष्टप्रसङ्गात् ॥

 अथानवस्थाप्रसङ्गपरिहाराय दूरमपि गत्वा किंचिज्ज्ञानमाद्यं वा ज्ञानान्तरेण न गृह्यते स्वयमात्मनैव गृह्यत इति, तथा ज्ञानवदर्थस्यापि स्वयं ग्रहणप्रसङ्गः ॥

 अथ दीपवत् स्वयमवभासते चावभासयति च अवभासात्मकत्वात्, अर्थस्यानवभासात्मकत्वाददोष इति चेत्-तथापि प्रकाशस्वरूपेष्वर्थेषु विज्ञानेनाग्रहणप्रसङ्गः ।

 अथ ज्ञानस्यात्मसमवेतत्वाभासनरूपाभ्यां स्वयं ग्रहणं, बहिःप्रकाशात्मकानां तु ज्ञानविपरीतधर्मत्वाददोष इति चेत्-तच्च न-यदि चात्मसमवेतत्वं प्रकाशात्मकत्वं च ज्ञानस्य स्वयंग्रहणे हेतुः स्यात् सर्वे सर्वज्ञाः प्राप्नुवन्ति ॥

 अथ ग्राह्याकारत्वमपि कारणं चेत्---तच्च न ; अन्यस्य ज्ञानस्यान्याकारतया करणत्वं यथा, तथा ज्ञानस्यापि ग्राह्मस्यान्याकारणान्यदेव ज्ञाने करणं स्यात्, तथा चानवस्था दुष्परिहरैव ॥

 किं चान्यत्---न हि कश्चित् स्वयंग्राह्यग्राहकत्वप्रसाधनाय दृष्टान्तो विद्यते, प्रदीपस्यापि चक्षुरादिग्राह्यत्वात् । न चाप्यंशद्वयमस्ति ज्ञानस्य, निरवयवत्वात् । सत्यपि चांशद्वये तयोः प्रकाशात्मकत्वान्नान्योन्यग्राह्यग्राहकभावः प्रदीपयोरिव द्वयोः ॥

 किं चान्यतू-ज्ञानस्य ग्राह्मग्राहकत्वाभ्युपगमे सत्यात्मसद्भावोऽपि दुस्सम्पाद एव । तस्मादर्थाकारज्ञानस्मृतिप्रतिसन्धानप्रयत्नेच्छादीनामनात्मधर्मत्वं ग्राह्मत्वात् रूपादीनामिव । परार्थत्वाञ्च सङ्घाताश्रयत्वं रूपादिनिदर्शनेनैव । तथा आश्रयवत्त्वादनित्यत्वाच्च प्रयत्नपूर्वकत्वाच्चेत्येवमादिभ्योऽनात्मधर्मत्वसिद्धिः ॥

 अयस्कान्तमणिकल्पम् ॥ अयस्कान्तमणिरिव । यथा अयस्कान्तमणिरयसः स्वात्मव्याप्तिं प्रत्युपकरोति सन्निधिमात्रेण, तथा चित्तमपि चित्स्वरूपस्यात्मनः स्वात्मव्याप्तेिं प्रत्युपकरोति दृश्यत्वेन ।