पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/65

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१५
समाधिपादः प्रथमंः



[ भाष्यम् ]

 चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति

[ विवरणम् ]

 ननु च यदि चित्तपरिविजृम्भितमेवेदं सर्वं पुरुषश्चेदुदास्ते कथमसौ भोक्तेति ? न—कारकवैचित्र्यात् । कानिचिव्द्यप्रियमाणानि कारकाणि, कानिचिव्द्यापारादृते सन्निधिमात्रेण कर्तृत्वं प्रतिपद्यन्ते ।

 यथा पञ्चतीत्यधिश्रयणादिषु व्याप्रियमाणः पुरुषः कर्तेत्युच्यते । स्थाली सम्भवधारणाभ्यामव्याप्रियमाणैव पचतीत्युच्यते । तथा स्थालीमध्यगतमाकाशमवकाशं ददाति, न तस्य व्यापारं प्रतीमः |

 यथा च राजा दर्शनमात्रेणैव कर्ता । सर्वाणि च कारकाणि स्वेषु व्यापारेषु कर्तृणि । न चादित्यः प्रकाशयन् करणान्तरमपेक्षते, व्याप्रियते वा । न हि प्रकाशनमविद्यमानमुत्पादयति गमनादिवत् । प्रकाशात्मतैव हि तस्य सद्भावः, तथापि सन्निधिमात्रेण घटादीनां प्रकाशरूपेण अभिव्यक्तेः प्रकाशयतीत्युच्यते, एवमिहापि दृशिमात्रेण पुरुषेण दृश्यानां चित्तवृत्तीनां चिदात्मना व्याप्यमानत्वातू, द्रष्टा पुरुष इतीममर्थं दर्शयति-चित्तमयस्कान्तमणिकल्पमिति ॥

 यस्याप्यात्ममनस्संयोगात् ज्ञानमुत्पद्यते, तस्यापि ज्ञानेन ज्ञेयं व्याप्नुवन्नात्मा ज्ञातेत्युच्यते, न व्याप्रियमाणः । ज्ञानम(स्या)पि गुणत्वे सति निष्क्रियत्वादात्मन एवार्थं दर्शयति । नापि क्रियानभ्युपगमात् जानातीत्यादि नोपपद्यते । ज्ञानेन हि ज्ञेयं व्याप्नुवन् जानातीत्युच्यते ॥

 किं चान्यत्–आत्ममनस्संयोगादपूर्वज्ञानोत्पत्तौ सत्यामात्मनस्तज्ज्ञानं, न मनसः । आत्मैव जानाति, न मन इति को हेतुर्भवेत् ? अथापि स्यात् आत्मनः समवायिकारणत्वादिति । नैतदेवं, असिद्धत्वात् । यथैव ज्ञानमात्मन इति साध्यं, एवमात्मन एव समवायिकारणत्वं न मनस इति साध्यम्, अनात्मस्वरूपत्वे सत्युभयसंयोगजत्वाभ्युपगमात् ॥

 अथापि स्यात्-ज्ञानाहितसंस्कारस्यात्म[नः]स्मृत्येककर्तृत्वेन प्रतिसन्धान- . दर्शनादिति--न-तस्यापि साध्यत्वात् । तत्रापि ज्ञानसंस्कारस्मृतिप्रतिसन्धानादीन्यात्मन एव, न मनस इति साधनीयानि । फलेन समानाश्रयवादिच्छादीनामिति चेत्-न-तत्रपि तुल्यत्वात् । संयोगजत्वे सत्यात्मनः फलेच्छादीनि, न मनस इति दुःसाधमेव ॥