पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/64

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१४
पातञ्जलयोगसूत्रभाष्यविरणे



[ भाष्यम् ]

 कथं तर्हि ? दर्शितविषयत्वात्---

[ सूत्रम् ]

 वृत्तिसारूप्यमितरत्र ॥ ४ ॥

[ भाष्यम् ]

 व्युत्थाने याश्चित्तवृत्तयः तदविशिष्टवृत्तिः पुरुषः । तथा च सूत्रम्-‘एकमेव दर्शनं ख्यातिरेव दर्शनम्’ इति ।

[ विवरणमू ]

 न तथेत्यनेन तदेति विशेषणस्यार्थवत्त्वं ख्यापयति ॥ ३ ॥  इतरस्तु तथापि भवन्तीत्यनेन चेत्स्वरूपप्रतिष्ठत्वमुच्यते, न तथेति च स्वरूपप्रतिष्ठत्वनिषेधश्वेदेकस्य वस्तुनस्तथाभावश्वातथाभावश्व विरुध्यत इति वीक्षापन्नः पृच्छति--कथं तर्हि इति ॥ इतर आह--वृत्तिसारूप्यमितरत्रेति ॥ कस्मात् पुनर्वृत्तिसारूप्यम् ? दर्शितविषयत्वात् ॥ उभयत्र स्वरूपप्रतिष्ठत्वाविशेषेऽपि वृत्तिसारूप्यासारूप्यकृतो विशेष इति, न तथाभावातथाभावविरोधः ॥

 ननु च वृत्तिसारूप्ययोगे सति अवस्थान्तरयोगात् परिणामित्वादिदोषः प्राप्नोत्येव । न । दर्शितविषयत्वेन परिहृतत्वात् । चित्तवृत्त्यध्यारोपितं हि तत्, न स्वतः, स्फटिकाद्युपधानोपरागवत् । व्युत्थान इति ॥ निरोधादन्यत्र याश्चित्तस्य क्लिष्टादयो वृत्तयः ताभिरविशिष्टा सदृशी वृत्तिः स्वरूपमस्य, चित्तवृत्तिव्यतिरेकेण स्वरूपव्यतिरेकेण च पुरुषस्य वृत्यभावात् सदा ज्ञातविषयत्वे परिणामानुपपत्तेश्च |

 तथा च पूर्वाचा१र्यसूत्रम् एकमेव दर्शनं-बुद्धिपुरुषयोः । किं तदित्याह--ख्यातिरेव दर्शनम् । बुद्धिवृत्तिरेव दर्शनम् । ख्यायते पुरुषेणेति च ख्यातिः ख्यायतेऽनया च बुद्धिपुरुषयोः स्वरूपमिति ख्यातिः | सैवार्थाकारोऽनया (कारतया) गृह्यत इति करणं, स्वेन च ख्यातिरूपेण गृह्यत इति कर्म च भवति । तथा दृश्यत इति दर्शनं, दृश्यतेऽनेनेति च, [ज्ञायत इति ज्ञानं,] ज्ञायतेऽनेनेति च सर्वमेवमादि द्रष्टव्यम् ॥

 यत्तु ख्यातिकर्तृत्वे चित्तस्य तदेव ज्ञायते जानाति चेति (ज्ञानादितिचेति) ज्ञानान्तरकल्पनावैयर्थ्यप्रसङ्ग इति, तस्य ‘न २तत्स्वाभासं दृश्यत्वात्' इत्यत्रैव परिहरं वक्ष्यामः । ‌


 1. पञ्चाशिखाचार्थसूत्रम्    2. पा. 4. सू. 19.