पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/63

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
समाधिपादः प्रथमः



[ भाष्यम् ]

 तदवस्थे चेतसि स्वविषयाभावात् बुद्धिबोधात्मा पुरुषः किंस्वभाव इति

[ सुत्रम् ]

 तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥

[ भाष्यम् ]

 स्वरूपप्रतिष्ठा तदानीं चितिशक्तिः, यथा कैवल्ये । व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा । ३ ।।

[ विवरणम् ]

योगानुशासनस्यापि तदर्थस्य निष्फलत्वं प्रतिपद्येत, तस्मात्पुरुषस्य वृत्तिनिरोधादनिरोधं दर्शयितुकामः ख्यातेश्चापि फलं साक्षाद्दर्शयन्नाह--तदवस्थे चेतसीत्यादि ।।

 तदवस्थे-निरोधावस्थे । स्वविषयाभावातू-स्वविषयश्चित्तवृत्तिस्तदभा(वे)वात् । बुद्धिबोधात्मा बुद्धिं वृतिरूपेण परिणतां बुध्यत इति बुद्धर्बोद्धा पुरुषः । तद्वोधनमेव हि पुरुषस्य स्वं रूपं, नान्यो बोद्धा, नान्यद्वोधनम्। बोद्धुश्च बोधनादन्यत्वे सति विक्रियात्मकता स्यात्। ततश्च दर्शितविषयत्वं च न स्यात् । तथा च करणान्तरापेक्षित्वं पुरुषस्य प्रसज्येत । तस्माद्वोधनं बोद्धृत्वं चोपचरितं तद्वृत्तिसारूप्येण । तथा च वक्ष्यति-‘द्रष्टा दृशिभात्रः१* इति । तस्मादाह बुद्धिबोधनमेवात्मा स्वरूपं यस्य स बुद्धेिवोधात्मा पुरुषः किंस्वभावः किं नश्वरस्वभावः, सद्भावे वा किंस्वभाव:, कर्थ वा सद्भाव इति ? ॥ तदा द्रष्टुः स्वरूपेऽवस्थानम् !! यदा निरुद्धा वृत्तयः, स्वरूपप्रतिष्ठा तदानीं चितिशक्तिः॥ स्वरूपप्रतिष्ठेत्यर्थः । यथा कैवल्ये ॥ तदा सद्भावं तु ‘न तत्स्वाभासं दृश्यत्वात्*२ इत्येवमादिना वक्ष्यति । तत्र सिद्धे सद्भावे तत आकृष्य प्राप्ताशङ्कानिवृत्त्यर्थमुच्यते-स्वरूपप्रतिष्ठेति ॥

 सिद्धवद्वयाख्यातं सूत्रम् । तत्रेदं प्रसक्तमितरत्र न स्वरूपप्रतिष्ठेति । अन्यथा हि तदेति विशेषणानर्थक्यं स्यात् । न चेदन्यत्र स्वरूपप्रतिष्ठा तत्रावस्थान्तरयोगात् परिणामित्वादिदोषः प्राप्नोतीति तत्परििजिहीर्षयाह–व्युत्थानचिते तु सति तथापि भवन्तीति । [अनेन] अन्यत्रापि स्वरूपप्रतिष्ठत्वं दर्शयति ॥


 l, पा-2. सू-20.  2,पा-4。सू-19。