पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/60

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

 चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम् । प्रख्यास्वरूपं हि चित्तसत्त्वम्

[ विवरणम् ]

 उच्यते--अव्यभिचारात् । व्यभिचरति न तत्तस्य लक्षणं, निरोधस्त्वसंप्रज्ञातेऽपि वर्तत” इति संप्रज्ञातं व्यभिचरति । न हि विषाणित्वं गोर्लिङ्गं, महिष्यादिभिर्व्यभिचारात् ॥

 ननु चासंप्रज्ञातमपि व्यभिचरति, संप्रज्ञातस्यापि हेयवृतिनिरोधत्वात् । सत्यमेवं, किं तु न निरोधादन्येन लक्षयितुमसंप्रज्ञातः शक्यते । निरोध एव तु तस्य लक्षणम्, अन्यस्याभावात् । संप्रज्ञातस्य त्वसाधारणवितर्कादिलक्षणलक्ष्यत्वात् । यथा स्पर्शलक्षणमित्युक्ते वायुरेवासाधारण्याल्लक्ष्यते स्पर्शवत्त्वेन, अथ च विद्यत एव स्पर्शवत्त्वं तेजः:प्रभृतिष्वपि ॥

 एवं च सति योगग्रहणमनुवादमात्रम् । अत एव च सर्वग्रहणं न कृतं सूत्रे । निरोधग्रहणेनैवासंप्रज्ञातलक्षणत्वे सिद्धे यदि सर्वग्रहणं क्रियेत, तत्संप्रज्ञातस्य योगतां निवारयेत् । तस्मादसंप्रज्ञातस्यैवेदं लक्षणम् । तथा चोपसंहरति भाष्यकारः-*न तत्र किंचित् संप्रज्ञायते इत्यसंप्रज्ञातः, स योगश्चितवृत्तिनिरोध' इति ।

 चित्ततद्वृतितन्निरोधव्याचिख्यासया चित्तं हीत्यादि भाष्यम् । किमात्मकं पुनस्तच्चितं, यस्य वृत्तिनिरोधो योग इत्यत आह-चित्तं हेि प्रख्याप्रवृत्तिास्थितिशीलत्वात् त्रिगुणमिति । तत्र चित्तं त्रिगुणमिति व्याख्यायते, प्रख्याप्रवृत्तिस्थितिशीलत्वादिति हेतुः । प्रख्या_प्रख्यानं प्रकाशनं, स हि सत्त्वगुणस्य धर्मः । प्रवृत्तिः प्रवर्तनं व्यापारः, स हि रजोधर्मः । स्थितिः स्थानं वरणं प्रतिबन्ध इति, स च तमोधर्मः । एवंशीलाः हि सत्त्वादयो गुणाः, चित्तं च प्रख्यादिशीलं, तस्मात् त्रयाणां गुणानां परिणामश्चित्तं भवितुमर्हति ।

 तस्य च प्रख्यादिहेतोरसिद्विमाशंक्याह-प्रख्यास्वरूपं हि चित्तसत्वमिति । हिशब्दः प्रसिद्धावद्योतनार्थः । प्रसिद्धं हि लोके शास्रे च सर्वावभासकत्वं चित्तस्य । चित्तमेव सत्वं चित्तसत्वं सत्त्वप्रधानगुणपरिणामत्वात् ॥

 अथवा अन्यसंसर्गवियोगाभ्यामनेकवृत्ति ख्यातिमात्रं च चित्तं स्पष्टं दर्शयितुं शक्यत इति ब्रवीति-प्रख्यास्वरूपं हि चित्तसत्त्वमिति ॥