पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/59

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
समाधेपादः प्रथमः

[ भाष्यम् ]

  सर्ववृत्तिनिरोधे त्वसंप्रज्ञातः (समाधिः) । तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते

[ सूत्रम् ]

योगश्चित्तवृत्तिनिरोधः ॥ २ ॥

[भाष्यम् ]

{{{1}}}

सर्वशब्दाग्रहणातू संप्रज्ञातोऽपि योग इत्याख्यायते ।

[ विवरणम् ]

 सर्ववृत्तिनिरोधे त्वसंप्रज्ञांत इति । तुशब्दोऽवधारणार्थः । तस्य एवंविधस्य समाधेरसंप्रज्ञातस्यैव केवलस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते प्रवृत्तं ‘योगश्चित्तवृत्तिनिरोध:* इ[ती]ति वक्तव्यम् ॥

 ननु च तस्य लक्षणमभिधातुमेतत् सूत्रं प्रवृत्तं, तथा च सति *योगस्य चित्तवृत्तिनिरोधः* इति वक्तव्यं, सामानाधिकरण्यं न युक्तम् । न हि लक्ष्यमेव लक्षणं स्यात् । चित्तवृत्तिनिरोधलक्षण इति वा वक्तव्यम् । नैष दोषः।लक्ष्ये । लक्षणाध्यासात् । यथाऽयं पिण्डो देवदत्त इति लक्ष्ये लक्षणमध्यस्यते (प्रत्यस्यते) ॥

 ननु च सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः, तस्य चेदं लक्षणं, ततश्च ‘योगः सर्वचित्तवृत्तिनिरोधः* इति वक्तव्यम् । न चोक्तम् । अतोऽतिव्यापि लक्षणम् । सर्वशब्दाग्रहणे तावत्कारणमुच्यते-यदि सर्वग्रहणं क्रियते, तदैकदेशनिरोधनिमित्तस्य संप्रज्ञातस्य योगत्वं निवर्तितं स्यात् । तन्माभूदिति सर्वशब्दाग्रहणम् ॥

 अस्तु तर्हि संप्रज्ञातासंप्रज्ञातयोः सामान्यलक्षणं, विशेषानुपादानात् । नैष दोषः । योगे प्रकृते पुनर्योगग्रहणात् । विशेषाविवक्षायां हि योगग्रहण नार्थवत् स्यात् ॥

 ननु चानुशासने न्यग्भूतत्वाद्योगस्य इह योगग्रहणे असति चित्तवृत्तिनिरोध इत्युक्तेऽनुशासनार्थता भवेत् सूत्रस्य-नैवं-योगानुशासनस्य प्रस्तुतत्वात् । येागानुशासनं हि प्रारब्धं, नायोगानुशासनं, तल्लक्षणाभिधाने ह्यतिप्रसङ्गः, . पदार्थासङ्गतिश्च । न हि चित्तवृतिनिरोधो योगानुशासनमिति पदार्थः सङ्गच्छते ॥

 एवमपि योगग्रहणात् कुतोऽसंप्रज्ञातस्यैव लक्षणं, न पुनः संप्रज्ञातस्य लक्षणं स्यातू, योगग्रहणस्याविशिष्टत्वादिति ?