पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/54

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
पातञ्जलयोगसूत्रभाष्यविवरणे


 तस्माद्यदुच्यते कैश्चित् (स)बीजसमाधिः कैवल्यसाधनामति-तन्न ! किं तहैिं? ख्यातिरेव साधनमविद्यानिवृतिद्वारेण । अविद्यानिमित्तो हि बन्धः । तस्माद्यद्यपि योगानुशासनं सूत्रितम् , तथापि ख्यात्यर्थवाद्योगस्य तद्द्वारेण ख्यातिहानसंबन्धमपि दर्शयतीति, सुष्टूच्यते उत्तरसूत्रसंबन्धार्थं च योगानुशासनमिति सूत्रयितव्यमिति ॥

 यद्यपि फलार्थिनां तत्फलसाधनं प्रत्युत्पन्नाकाङ्क्षाणां साधनोपदेशोऽप्यास्ति । तथापि न तत्प्रयोजनम् , सर्वस्य फलोद्देशेन प्रवृत्तेस्तदेव प्रयोजनमिति ॥ योगानुशासनमिति । यथा - शिष्योऽनुशिष्यते विशिष्टप्रवृत्तिनि

 वृत्तिनियमद्वारेण, तथा विशिष्टसाध्यसाधनतदङ्गनियममात्रसादृश्यादन्तेवास्यनु शासनवद्योगानुशासनमित्युच्यते । अनुशिष्टिरनुशासनं, " योगोऽनुशिष्यतेऽनेनास्मिन्निति वा योगानुशासनं शास्त्रम् ॥

 अथेत्ययमधिकारार्थः।अधिकार आरम्भः प्रस्तावः, अर्थोऽभिधेयोऽस्य ; शिष्टस्मृतिप्रामाण्यात् । ननु चानन्तर्यार्थस्याथशब्दस्य स्मरन्ति शिष्टाः । तथा चाह—“वृत्तादनन्तरस्य प्रक्रियार्थो १दृष्टः” इति । न—सर्वत्रारम्भार्थत्वात् । आनन्तर्यस्य च गम्यमानत्वात् । यथा पुत्र इत्युक्ते पिता गम्यते, न च पुत्रशब्दस्यार्थः पिता, तथेहाप्यारम्भ एवाभिधीयते, आनन्तर्य तु प्रतीयते ॥

 अत एव च *वृत्तादनन्तरस्य प्रक्रियार्थो दृष्टः* इत्युच्यते । यदि चानन्तर्यार्थोऽभविष्यत्तदा *वृत्तादानन्तर्येऽर्थे प्रक्रियायाः? इत्यवदिष्यत् । अनन्तरस्येति चानन्तरभाविन एवाभिधानम् । अपि चैवं हि स्मृतिः-**किञ्चिदव्ययं२ विभक्त्यर्थप्रधानं किञ्चित्क्रियाप्रधानम् । उचैर्नीचैरित्यादि विभक्त्यर्थप्रधानम् , हिरुक् पृथगित्यादि क्रियाप्रधानम्' (इति] । न चैतद्वयतिरेकेणाव्ययानामर्थो विद्यते । तत्राथशब्दस्यानन्तर्यार्थत्वे सति विभक्त्य(क्ति)श्रवणमयुक्तम्, सत्त्वप्रधानत्वात् । आरम्भक्रियार्थत्वे तु न विभक्त्य(र्थ)श्रवणमयुक्तम्, असत्त्वप्रधानत्वादिति ।

 तस्मादथशब्दः प्रस्तावार्थ एवेति युक्तमथेत्यधिकारार्थ इति । स्वरूपावद्योतनार्थ इतिशब्दः । यथा गौरित्याहेति । प्रसिद्धोऽप्यथशब्दार्थोऽधिक्रियमाण- विषये शिष्यबुद्धिसमाधानार्थ कीर्त्यते । सिद्धो ह्ययं न्यायः श्रुतौ व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्व' इति ॥

1. शबर. भा. अ. 1. प. 1. सू. 1. बृ उ. 2, 4 4. 2. महाभाष्य 1. 1. 37.