पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/411

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३૭૦ पातञ्जलयोगसूत्रभाष्यविवरणे

ओङ्कारो यस्य वक्ता समचरत फलैः कर्म यस्मादशेषं निष्कर्मक्लेशपाको घटयति सकलं यः फलेन क्रियाणाम् । ईशानामीश्वरो यः स्थितिभवनिधनप्रक्रियाणां विधाता ध्यायन्नः शुक्लिमानं व्यपनुदतु तरां कृष्णिमानं स कृष्णः ॥

यात्राकृतस्त्रिजगतां यदचिन्त्यशक्ति लेशान् दशाहुरेह मीनमुखावतारान् । क्लेशोद्भवत्रिविधतापपरम्परार्ता: तं नागनाथशयनं शरणं व्रजामः ॥

फणरत्नौधाविद्योति [ पृथिवी ] धुनभोदिशे । योगीन्द्राय फणीन्द्रय तत्पतञ्जलये नमः ॥

योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन । योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥

स जयति पतञ्जलिमुनिः येन श्रेयोऽर्थिसार्थसस्यानाम् । विहितो हर्षस्तापत्रितयहृता धर्ममेघेन ॥

यस्ततान भवमार्गलङ्घिनां क्लेशकर्ममयधर्मनुत्तये । धर्ममेघमुखयोगतोयदम् [तं पतञ्जलिमृर्षि प्रणतोऽस्मि] ॥

वदनाहितपूर्णचन्द्रकं गुरुमीशानमभूतिभूषणम् । प्रणमाम्यमुजङ्गसङ्ग्रहं भगवत्पादमपूर्वशङ्करम् ॥

इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीशङ्करभगवतः कृतौ पातञ्जलयोगसूत्र(शास्त्र)भाष्यविवरणे चतुर्थः कैवल्यपादः ॥

॥ समाप्तं चेदं विवरणम् ॥

1. अयं कस्यचित् भगवत्पादशिष्यस्य गुरुप्रणामरूपः श्लोकः अन्ते निवेशितः लेखकेन । अथवा शिष्यप्रार्थनया तत्प्रीत्यर्थे भगवत्पादैरेव शिप्यकृतस्वस्तुतिरूपोऽयं श्लोकः ग्रन्थान्ते निबद्धः स्यात् । यथा भामत्यां मिश्रशिष्यस्य सनातननानाम्नः कृते: मिश्रस्तुतिरूपपद्यस्य ग्रन्थे निवेश इति, वेदान्तकल्पतरौ चतुर्थाध्यायारम्भे "आाचार्यस्य शिष्यः सनातननामा, तत्कृतां स्तुतिं तत्प्रीत्यर्थे प्रबन्धमधिरोपयति-'शङ्के' इति |" इति वाक्येनोक्तम् । श्रीवैष्णवग्रन्थेषु ग्रन्थोपक्रम एव ईदृशी रीतिः बहुलं दरीदृश्यते । तदवलोकिनां नैतद्विस्मयकरम्-कथं स्वस्यैव स्वेनैव स्तुतिः क्रियेत ? इति ॥