पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/410

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

 कैवल्यपादः चतुर्थः ३६९

                    [ भाष्यम् ] 

कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकरणात्मकानां गुणानां तत् कैवल्यं, स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वानभिसंबन्धिनी पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यम् ओमिति ॥ ३४ ॥

इति श्रीपातञ्जलयोगसूत्रभाष्ये श्रीमद्वेदव्यासकृते ॥ चतुर्थः कैवल्यपादः ॥

                 [ विवरणम् ] 

इहापि विप्रतिपत्तिप्रणोदाय कैवल्यस्वरूपमवधार्यते-पुरुषार्थशून्यानां गुणानां यः प्रतिप्रसवः प्रतिसंसर्गः स्वकारणे प्रत्यस्तमय इत्यर्थः, कार्यकरणात्मकतया परिणतानाम्, तत् कैवल्यं पुरुषस्य केवलत्वं गुणैरमिश्रीभाव इत्यर्थः ॥

स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । बुद्धिसत्त्वानभिसंबन्धिनी या पुरुषस्य चितिशक्तिः अमिश्रा केवला तस्याः सदा । तथैव अवस्थानं केवलायाः भावः कैवल्यम्

ननु कैवल्यस्यैकत्वे कथं विकल्पः ? क्रियायां हि विकल्पो न तु वस्तुनि | वस्तुस्वरूपस्य भेदानुपपत्तेः । कैवल्यमपि वस्तु, कथं तद्विकल्प्यत इति । नैष दोषः । निमित्तनैमित्तिकयोः प्रभेदोपपत्तेः । निमित्तनैमित्तिकभेदोपचरितोऽपि विकल्पो न वस्तुस्वरूपभेदकृतः । या तु गुणानां परिणामिता पुरुषस्य विमिश्रता वृतिसरूपता, सा कार्यकरणात्मकानां पुरुषार्थशून्यानां गुणानां प्रतिसंसर्गान्निमित्तादपगच्छतीति निमित्तमेव प्रतिप्रसवाख्यं कैवल्यशब्देनोपचरितं पूर्वम् ॥

द्वितीयं तु गुणप्रतिप्रसवनिमित्तभावि यत् स्वरूपावस्थानं पुरुषस्य गुणैरमिश्रिततया, तत् कैवल्यमिति विशेषः । गुणपुरुषान्तरस्वरूपतत्त्वनिर्धारणेन तन्त्रान्तरीयतत्वस्वरूपनिराकरणेन च कैवल्यान्तराणि निवेदितव्यानि ॥

तत्रोङ्कारो मङ्गलार्थः प्रयुक्तः परमेश्वरनामाङ्कितमस्तकतया तन्त्रप्रचयार्थं शान्त्यर्थं वा वेदारण्यकवदिति ओम् इति ॥

१. संबन्धात्पु- 47