पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/406

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३६४ पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्तो भवति । कस्मात् ? यस्माद्विपर्ययो भवस्य कारणम् । न हि क्षीणविपर्ययः कश्चित् केनचित्क्वचिञ्जातो दृश्यत इति ॥ ३० ॥

[ सूत्रम् ]

 तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम्॥ ३१ ॥

[ भाष्यम् ]

 सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्याऽऽनन्त्यं भवति । आवरकेण तमसाऽभिभूतमावृतमनन्तं ज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थं भवति । तत्र यदा सर्वैरावरणमलैरपगतं भवति, तदा भवत्यस्याऽऽनन्त्यम् । ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पं संपद्यते । यथाऽऽकाशे खद्योतः ।

[विवरणम् ]

{{gap}}क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् मुक्तो भवति । कस्मात् एवम् ? यतो विपर्ययः मिथ्याज्ञानं भवस्य जन्मनः कारणम् । न हि क्षीणविपर्येयः कश्चित् क्कचिञ्जातो दृश्यते ॥ ३० ॥

 तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्यात् ज्ञेयमल्पम् । तदा धर्ममेघसमाधिसमये, सर्वैः क्लेशकर्मावरणैः रजस्तमोजन्मभिः विमुक्तस्य, ज्ञानस्य सत्त्वपुरुषान्यताख्यातिमात्रस्य भवत्यानन्त्यम्। तत् कथमिति ? तमसा(न)sभिभूतमनन्तं ज्ञानसत्त्वं, तस्य तिरस्कृतरजोमलस्यानन्तस्य निस्तरङ्गमहोदधिदेशीयस्य निरहितस्याविक्रियस्य कथं तद्ग्रहणसामर्थ्यमित्याह-क्वचिद्रजसा प्रवर्तितं चित्तसत्त्वम् उद्घाटितं वायुनेव महापयोदमण्डलमाह्रतं सूचितं ग्रहणसमर्थं भवति । स्वतः सत्त्वस्याप्रवर्तनात् रजसो हि प्रवृत्तिसामर्थ्यमिति ॥

 तदाऽस्य चित्तस्य भवत्यानन्त्यम्, अशेषज्ञेयविषयत्वमम्बरतलमध्यवर्तिनो जलधरनरोधनिर्गतस्य रवेरिव । तस्य ज्ञानस्यानन्त्यात् अशेषविषयत्वात् ज्ञेयमल्पं सम्पद्यते । यथा आकाशे खद्योत: इति । यथा आकाशापेक्षया खद्योतो न किंचिदेवमेतज्ज्ञानाभिसमीक्षया ज्ञेय न किंचिदिति ।