पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/404

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

3 R पातञ्जलयोगसूत्रभाष्यविवरणे [ सूत्रम् ]

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७ ॥

[ भाष्यम् ] 'विवेकनिम्नस्य सत्त्वपुरुषान्यताख्याति प्रवाहाधेिरोहिणश्चित्तस्य तच्छिद्वेषु प्रत्ययान्तराण्यस्मीति वा ममेति' वा । कुतः ? क्षीयमाणबीजस्य' पूर्वसंस्कारेभ्य इति ॥ २७ ॥ [ सूत्रम ] * हानमेषां क्लेशवदुक्तम् ॥ २८ ॥ [ भाष्यम् ] यथा क्लेशा दग्धबीजभावा न प्ररोहसमर्था भवन्ति, तथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो न प्रत्ययप्रसूर्भवति । ज्ञानसंस्कारास्तु चित्ताधिकारसमाप्तिमनु शेरत इति न चिन्त्यन्ते ॥ २८ ॥ { विवरणम् ]

   तच्छिद्वेषु प्रत्ययान्तराणि संस्कारेभ्यः । विवेकनिम्नस्य उत्तरोत्तरविवेकप्रवणचेतसः पुरुषस्य ज्ञानिनः अन्यताख्यातिप्रवाहाधिरोहिणः सत्त्वपुरुषान्यतास्रोतःप्लाविनः चित्तस्य तच्छिद्वेषु विवेकप्रत्ययप्रवाहान्तरालेषु प्रत्ययान्तराणि विपर्ययलक्षणानि अस्मीति वा ममेति वा । कुतः तानि

भवन्तीत्याह--क्षीयमाणक्लेशादिबीजस्य चित्तस्य पूर्वेपचितविपरीतसंस्कारेभ्यः प्रत्ययान्तराणि जायन्ते ॥ २७ । हानमेषां क्लेशवदुक्तम्। यथा क्लेशा दग्धबीजभावा न प्ररोहसमर्था भवन्ति इति *° ते प्रतिप्रसवहेयाः सूक्ष्माः इत्यत्रोक्तम्, एवं ज्ञानाग्निदग्धबीजभावा: अस्मि ममेत्यादिप्रत्ययसंस्कारा न प्ररोहसमर्था भवन्ति । दग्धशालिबीजवत् पूर्वसंस्कारो न प्रत्ययप्रसूर्भवतीत्यर्थः ॥ ज्ञानसंस्कारास्तु कथमप्रतिपक्षाः सन्तश्चित्तमधिकारे न(विज)योजयिष्यन्तीति ? ते तु सम्यग्दर्शनसंस्काराश्चिताधिकारपरिसमाप्तिमनुशेरते । सहैवाश्रयेणावसितप्रयोजनेन चित्तेन प्रलीयन्ते । न पुनश्चित्तमधिकारप्रवणं कुर्वन्ति । अधिकारहेतोरविद्यायाः प्रतिपक्षत्वाज्ज्ञानस्य । तत्र निष्फलत्वात् न चिन्त्यन्ते ! न हि स्वयं पततः पतनहेतुरन्वेषणीयः ॥ २८ ॥ 1. प्रत्ययविवेक 4. बीजेभ्यः 2. मात्रप्रंवाहिणः 5. यो. सू. 2-10. 3. वा जानामीति वा न जानामीति वा ।