पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/403

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

 कैवल्यपादः चतुर्थः ३६१

                    (भाष्यम्)
स्वाभाविकी प्रवर्तते । "तस्याभावादिदमुक्तंं ‘स्वभावदोषादेषां

पूर्वपक्षे रुचिर्भवत्यरुचिश्व निर्णये भवति । तत्राऽऽत्मभावभावना ‘कोऽहमासं कथमहमास किंस्विदिदं कर्थस्विदिद के भविष्यामः कथं वा भविष्यामः' इति । सा तु विशेषदर्शिनो निवर्तते । कुतः ? चित्तस्यैवैष विचित्रः परिणामः, पुरुषस्त्वसत्यामाविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति । *तस्याऽऽत्मभावभावना कुशलस्य निवर्तत इति ॥ २५ ॥

                   | सूत्रम् } 
  • तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६ ।।
                      [ भाष्यम्]
तदानीं यदस्य चित्तं *अज्ञानप्राग्भारं *विषयनिम्नमासीत्तदस्यान्यथा भवति कैवल्यप्राग्भारं विवेक °निम्नमिति ॥ २६ ॥
                  [ विवरणम् ] 
तस्य विशेषदर्शिन: आत्मभावभावना कैवल्यभागीयकर्मनिमित्ता स्वाभाविकी जन्मान्तरकर्मनिमित्ता इहजन्मापरिग्रहस्थैर्यकारणा वा । सा ह्याचार्योपदेशानपेक्षा स्वाभाविकी प्रवर्तते। तस्य कर्मणस्तादृशस्य अभावात् इदमुक्तम्- स्वभावदोषात् अशुद्धकर्मयोगातू एषां पूर्वपक्षे सम्यग्दर्शनतदुपायविपर्यये रुचिर्भवति, अरुचिश्व निर्णये सम्यग्दर्शने ॥

तत्रात्मभावभावना का पुनरित्याह---कोऽहमासं, कथमहमासं, किंस्विादद, कथंस्विदिदं, के भविष्याम:, कर्थ भविष्यामः, इति। सा तु विशेषदर्शिनो निवर्तते । यद्विषया हि जिज्ञासा, तस्मिन्नधिगते तद्विषया जिज्ञासा विनिवर्तते । कुतः एतदवम् ? यतः चित्तस्यैवैषः के भविष्यामं इत्यादिः चित्रः परिणामः न पुरुषस्य । पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति । यस्मादेवमत एवं विशेषदर्शनः तस्यात्मभावभावना कुशलस्य निवर्तते ॥ २५॥ यदा च विशेषदर्शनमुदपादि, तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ।यदस्य चित्तं विषयनिग्नं विषयप्रवणम् अज्ञानप्राग्भारम् अज्ञाननिष्ठं संसाराभिमुखम् आसीत् , तदस्य विशेषदर्शिनः तदानीमन्यथा भवति, कैवल्यप्राग्भारं विवेकनिम्नम् इति प्रतिस्रोतोवृत्तिर्ज्ञायते ॥ २६ ॥ 1- यस्या- 4. विषय 2. स्वभावं मुक्त्वा दोषाचेषां 5. अज्ञान 3. ततोऽस्याऽऽ 6. विवेकजज्ञान 46