पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/400

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५८
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

 कुतश्च--

[ सूत्रम् ]

तदसङ्ख्येयवास'नाचित्रमपि परार्थं संहत्यकारित्वात ॥२४॥

[ भाष्यम् ]

 तदेतचित्तमसङ्ख्येयामिर्वासनाभिरेव चित्रीकृतमपि परार्थं परस्य भोगापवर्गार्थं, न स्वार्थं संहत्यकारित्वाद्गृहवत् । संहत्यकारिणा चितेन न स्वार्थेन भवितव्यम्। न हि सुखचितं सुखार्थं, न ज्ञानचितं ज्ञानार्थं, उमयमप्येतत्परार्थम् । यश्च भोगेनापवर्गेण चार्थेनार्थवान् पुरुषः, स एव परो न परसामान्यमात्रम् ।

[ विवरणम् ]

 कुतश्च अस्ति पुरुषश्चित्तव्यतिरिक्तः ? पूर्वं चित्तस्य दृश्यत्वेन व्यतिरिक्तपुरुषसिद्धिरापादिता । तस्यैव तु चित्तस्य संहत्यकारित्वेनाधुना स्वामिसिद्धयर्थमाह-तदसङ्ख्ययवासनाचित्रमपि परार्थं संहत्यकारित्वात् ॥

 यद्यपि तदेव चित्तमसंख्येयाभिर्वासनाभिः अनादिसमयाभिः चित्रीकृतं भ्रान्तकारणमुक्तं, तथापि परार्थं परस्य भोगार्थमेवेति प्रतिज्ञायते । संहत्यकारित्वात् कार्यकरणविषयादिव्यापारापेक्षमर्थसाधकत्वात् सैहत्यकारित्वम्, अतः संहत्यकारित्वात् गृहादिवत् इति पारार्थ्यं चित्तस्य । न हि किंचन लोके संहत्यकारि दृष्टं स्वार्थम् ॥


 तस्मात् संहत्यकारिणी,चितेन न स्वार्थेन भवितव्यम् । न हि सुखचितं, सुखार्थं सुखचितार्थ वा । नापि ज्ञानचित्तं ज्ञानार्थं वा ज्ञानचितार्थं वा। कि तहिं? सुखचित्तं ज्ञानचित्तमपि एतदुभयं परार्थम् ॥


 यश्च भोगेन सुखचित्तेन ज्ञानचित्तेन च अपवर्गेणार्थेनार्थवान् पुरुषः स एव परः । न परसामान्यमात्रं शरीरमिन्द्रियाणि विषया वा । नहि वैनाशिकः सुखचित्तं शरीरेन्द्रियविषयार्थमिच्छति । तथा चेच्छन्नभ्युपगतं विरुन्धीत । विज्ञानस्यैव हि सुखापवर्गाभ्यामर्थित्वमभिमन्यते । तस्मात् य एव शरीरेन्द्रियविषयव्यतिरिक्तः पुरुषो भोगापवर्गाभ्यामर्थवानन्यो विज्ञानादभ्युपगमनीयः ॥


1. नाभिश्चि     2. शार्न