पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/392

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५०
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

न चाग्निरत्र दृष्टान्तः । न ह्यग्निरात्मस्वरूपमप्रकाशं प्रकाशयति । प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः । न च स्वरूपमात्रेऽस्ति संयोगः ।

[ विवरणम् ]

 अत्रोच्यते-तदेतद्दृष्टान्तापशदावष्टम्भेन सकललोकप्रसिद्धमार्गोपारोहिण आत्मनो निराकरणमशक्यम् । कस्मात् ? न चाग्निरत्र दृष्टन्तः । न ह्यग्निरात्मस्वरूपमप्रकाशं प्रकाशयति, यदि चाग्निरप्रकाशः सन् आत्मनैव घटादिवत् प्राकाशयिष्यत, तत उपापत्स्यत दृष्टान्तः । न त्वेवम् । न हि कदाचिदग्निरप्रकाशः ॥


 प्रकाशश्चायम् । स च प्रकाश्यप्रकाशकसंयोगे दृष्टः । न च स्वरूपमात्रेऽस्ति संयोगः । द्वयोर्हि संयोगः । नासति संयोगे स्वरूपावभासकत्वम् ॥


 यदप्युच्यते--घटादिवत् प्रकाशान्तरं नाग्निरपेक्षत इति । तत् प्रकाश्यरूपाभावात् । न तु तस्य घटादिवत् प्रकाश्यं रूपमस्ति ! न तावता व्यतिरिक्ताग्राह्मत्वम् । चक्षुषा तुल्यव्यातिरिक्तेन गृह्यत एव ॥


 प्रकाश्यस्य घटांदेरवतमसतिरस्काराष्य प्रकाश उपादायेष्यते । न त्वप्रकाश्यरूपत्वात् । अग्नेरालोकान्तरानाकाङ्क्षणं तु भवतैवाभिहितं-द्वयोः प्रदीपयोर्नास्ति परस्परोपकार इति । यत्र नाम भेदेऽपि द्वयोः प्रदीपयोर्नास्त्यप्रकाश्यरूपत्वादन्योन्योपकारः, किमुत असति भेदेऽत्र प्रकाशान्तरमेव नापेक्षते इति ॥


 न तु व्यतिरिक्तग्राह्यत्वं व्यभिचरति, प्रदीपयोदृश्यवाद्घटादिवत्। एतेन व्यतिरिक्तग्राह्यत्वं ज्ञानस्य दृश्यत्वात् प्रदीपादिवत् सिद्धं भवति । प्रदीपादिवच्च ज्ञानस्य प्रकाशस्वरूपत्वात् करणान्तरानपेक्षापि सिद्धा । तथा च अनवस्थादोषगन्धो न विद्यते ॥


 यदप्युच्यते-ज्ञानस्यावभासात्मकत्वात् तद्ग्राहकस्याप्यवभासरूपत्वात् न परस्परोपकार्योपकारकभावः प्रदीपयोरिव द्वयोरिति । नासौ दोषः । चक्षुःप्रदीपवदात्मज्ञानयोर्जात्यन्तरत्वात् ॥


 ननु चाहंप्रत्ययेन चित्तं प्रत्ययि गृह्यत इति विषयविषयित्वमेकस्यैव । नैष दोषः । त्रिगुणत्वाच्चित्तस्य । यत्तत्र तमःप्रधानं चित्तं तदन्यया