पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/39

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

xxxv

वस्तुनः सद्भावासद्भावयोः शुक्तिरूप्यादौ दर्शनात् । तत्र हि काचकामलादिदोषदूषितनेत्रः पुरुषः शुक्तौ रूप्यसद्भावं प्रतिपद्यते । तदितरस्तु शुक्तिस्वरूपमेव जानन् तत्र रूप्याभावमवगच्छति । न हि पारमार्थिकं घटादि पुरुषविशेषं प्रति सद्भावासद्भावौ युगपत् प्राप्नोति । तस्मात् स्वरूपज्ञानपर्यन्तमनुवर्तमानस्य तत ऊर्ध्वमप्रतिभासमानस्य प्रपञ्चस्य वेदान्तिनामिव साङ्ख्यादीनामपि अविशेषात् मिथ्यात्वं सिद्धम् । अथापि कस्मात् न व्यवहरन्तीति चेत्--श्रोतुर्बुद्धिसमाधानार्थमिति ब्रूमः । स खलु प्रथमत एव सर्वं मिथ्येत्युक्ते, कथमेतत् घटत इत्ति व्याकुलितमनस्को भवेत्, तन्मा भूदिति सत्यत्वव्यवहार एव केवलम् । आत्मनानावस्य जीवेश्वरभेदस्य च मुक्तावनवभातत्वेनैव प्रपञ्चवन्मिथ्यात्वम् । यदि व्यवहारदशायामेक एव आत्मेत्यभिधीयेत, तदा तत्तदुपाधिपरिकल्पनेन जीवेश्वरव्यवस्था सुखदुःखादिव्यवस्था च प्रयाससमर्थनीया स्यादित्यभिप्रायेणैव तन्नानात्ववर्णनम् । मुक्तौ तु वेदान्तिनामिव सांख्यादीनामपि केवलात्मस्वरूपप्रतिभास एव संमत इति परमार्थतोऽद्वितीयत्वमात्मनः सिद्धम्" इति ॥

 यद्यपि पातञ्जलसूत्रे ‘नष्टम्’ इत्यत्र नाशोऽदर्शनम् इत्यर्थो वर्णयितुं शक्यते, व्याख्यातं च तथा व्याख्यातृभिः, तथाऽपि मानाधीनत्वान्मेयसिद्धेः मुक्तदृष्ट्या दर्शनागोचरस्य प्रपञ्चस्यासद्धाव एवेत्यत्र विवादायेगात् नाश: अदर्शनं वाऽस्तु, निवृत्तिर्वाऽस्तु, उभयथाऽपि फलमविशिष्टमिति बोध्यम् ॥

 एवं महाभाष्येऽपि पतझलिप्रणीते तृतीयाध्यायप्रथमपादप्रथमाह्निके "धातोः कर्मणः समानकर्तृकादिच्छायां वा" इति पाणिनिसूत्रविवरणावसरे “सर्वस्य वा चेतनावत्त्वात् (वार्तिकम) अथवा सर्वं चेतनावत् । एवं हि आह---कंसकाः सर्पन्ति, शिरीषोऽयं स्वपिति, सुवर्चला आदित्यमनुपर्येति, आस्कन्द कपिलकेत्युक्ते तृणमास्कन्दति, अयस्कान्तमयस्संक्रामति, ऋषिः पठति--शृणोति ग्रावाणः इति?" इत्युक्तम् । तत्र कैयटेन विवृतम्-"सर्वस्य वेति, आत्माद्वैतदर्शनेनेति भावः । ऋषिरिति-वेदः | सर्वभावानां चैतन्यं प्रतिपादयतीत्यर्थः" इति ॥

 एवञ्च आत्माद्वैतं महाभाष्ये स्फुटीकृतम् । एवं तत्रैव स्थलान्तरेष्वपि आत्माद्वैतमाविष्कृतं, विस्तरभिया उपरम्यते ॥

 परमार्थसाराभिधायाम् आर्यपञ्चाशीत्यामपि पतञ्जलिना अद्वैतदर्शनं स्फुटीकृतम्।