पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/389

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४७
कैवल्यपादः चतृर्थः

[ भाष्यम् ]

  यस्य तु तदेव चित्तं विषयस्तस्य

[सूत्रम् ]

सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८ ॥

[ विवरणम् ]

 येन वस्तुना चित्तमुपरज्यते तत् ज्ञातं, येन च नोपरज्यते तत् अज्ञातम् । स चोपरागश्चित्तपरिणामापेक्षः । इन्द्रियमार्गेण चित्तं बाह्याकारेण परिणममानं हि सम्बध्यते ।

 किं पुनश्चित्तपरिणामनिमितमित्याह-अयस्कान्तमणिकल्पा अयस्कान्तसमानाः विषयाः, अयस्सधर्मकं चित्तम्--अयस्सधर्मकत्वं च विषयसन्निधाने विक्रियत इति । विषयाणामप्ययस्कान्तमणिकल्पत्वं सन्निधिमात्रेण चित्तविक्रियापादनसामर्थ्यात् । अतो विषया आत्माकोरण परिणतं चित्तम् अभिसंबध्योरञ्जयन्ति ॥

{{gap}}येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातः । ततोऽन्यः(ऽन्ये) पुनः अनुपरञ्जको (का)विषयः(या)अज्ञातः (ताः) ! तस्मात् वस्तुनो ज्ञाताज्ञातस्वरूप(विषय)त्वात् परिणामि चित्तम्। अथ पुनश्चित्ततन्त्र एव विषयश्चित्तमेव वा विषयः, तस्य वादिनः सर्वविषयज्ञत्वमविषयज्ञत्वं वा भवेत् । अज्ञातस्य चित्तस्याभावात् । न चेदं दृश्यते । किं तर्हि ? ज्ञाताज्ञातविषयत्वमेव चित्तस्य प्रतिपद्यामहे । तचैतत् स्थिरावस्थानानां विषयाणां प्राप्त्यभावादन्यथा च संबन्धानवकल्पनाचित्तपरिणामापेक्षमेवेति परिणामित्वम् ॥ १७ ॥

 यस्य तु स्वामिनो भोक्तुः तदेव ज्ञाताज्ञातविषयं चित्तं वृत्तिरूपेण विषयः न हि निरुद्धवृत्तिनचेतसो विषयत्वमिति, तस्य पुरुषस्य सदा। ज्ञाताश्चत्तवृत्तय:[तत्प्रभोः पुरुषस्यापरिणामित्वात्] । तासां प्रत्यक्षत्वात् सदा ज्ञातविषयत्वमप्रसाध्यम् ॥

 यद्वा प्रत्यक्षगम्याश्चित्तवृत्तयः, उपलब्धत्वेन शब्दलिङ्गानपेक्षं स्मर्यमाणत्वात्, प्रत्यक्षोपलब्धघटवत् । निश्चितरूपत्वाच्च तथैव । संशयाविषयत्वाच्च । यदि हि सदैवाप्रत्यक्षाश्चित्तवृत्तयः, ता बाह्यविषयवत् संशयिता अपि कदाचित् काश्वन भवेयुः । न हि काश्वन कदाचन संशयमार्गसंपातिन्यो दृष्ट्राः ॥