पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/386

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४४
पातञ्जलयोगसूत्रभाष्यविवरणे


[ सूत्रम् ]

न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ १६ ॥

[ भाष्यम् ]

एकचित्ततन्त्रं चेद्वस्तु स्यात्तदा 1तच्चित्ते व्यग्रे निरुद्धे वाऽस्वरूप-

[ विवरणम् ]

  तस्मात् न हि वस्तुनः स्वरूपं विज्ञानसहभावि, तदेवेदमिति प्रत्यभिज्ञात्वात् । नाचिरजन्मप्रलयं तदेवेदमिति प्रत्यभिज्ञायेत, यथा विज्ञानम् । न हि तदेवांदो मे विज्ञानमिति भवति ! वस्तु पुनस्तदेवेदमिति प्रत्यभिज्ञायते । अर्थज्ञानयोरेकसमयभवित्वेऽप्येक[परिशेषः]विशेषः स्यात् ।

 नापि सादृश्यात् प्रत्यभिज्ञानम् । ग्राह्यग्राहकयोर्युगपदुत्पत्तिविनाशवत्वात् । व्यवस्थिते हि वस्त्वन्तरदृश्ये अन्यतत्सदृशवस्तुदर्शनेन सादृश्यप्रत्ययः । एवं तत्सदृशं वा द्रक्ष्यामीत्युत्तराभिलाषः । न हि तदहर्निश्चितमरणस्यापरेद्युरर्थदर्शनाकांक्षा जायते । नापि मत्सदृश ईक्षिष्यत इत्यभिलषति । न चैवं दृष्टम् । सर्वो हि स्वार्थमीहते । भिन्नसन्ततिष्वदर्शनात् ॥

 तस्मादिदानीतनोऽर्थः नेदार्नीन्तनज्ञानसहभूरेवेति, ग्राह्यत्वात् , अतीतार्थवत् । अतीतो वा नातीतज्ञानसहनाशजन्मा, ग्राह्यत्वात्, इदानीन्तनार्थवत् । भूतभविष्यज्ज्ञानग्राह्या अर्था अधुनाऽपि सन्ति, ग्राह्यत्वात्, अधुनातनप्रत्ययग्राह्मवत् ।। इदानीन्तनमपि वस्तु पूर्वोत्तरक्षणेषु तथैव ॥

 अथ सुखदु:खज्ञानादिभिरनैकान्तिकमिति चेत्-न-अतीतानागतं स्वरूपतोऽस्तीति साधितत्वात् [ एवं च सति सुखादीनां च स्वरूपेण सद्भावात् सुखादिवदिति साध्यसमानो दृष्टान्तः ।

 अथ वर्तमानरूपविशेषेणातीतानागतलक्षणयोरर्थस्य सुखादिवदभाव इति चेत्, सिद्धसाध्यता । न हि कुमारभाव एव वृद्धत्वं विद्यते ॥ १५ ॥

 इतश्च चित्ततन्त्रता वस्तुनो नावकल्पते । एकचित्ततन्त्रं वा वस्तु भवेदनेकचित्ततन्त्रं वा ? एकचित्ततन्त्रत्वे ब्रूमः--न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ? न तावदेकचित्ततन्त्रे, एकचित्ततन्त्रं चेद्वस्तु स्यात् यदिचेदमुच्यते, तच्चित्ते यच्चित्ततन्त्रं वस्तु तस्मिश्चित्ते व्यग्रे परासक्ते


1. चित्ते