पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/382

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
3४०
पातञ्जलयोगसूत्रभाष्याववरणे

[ भाष्यम् ]

 नास्त्यर्थो विज्ञानविसहचरः, अस्ति तु विज्ञानमर्थविसहचरं स्वप्नादौ कल्पितमित्य1मुया दिशा ये वस्तुस्वरूपमपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं न परमार्थतोऽस्तीति य आहुस्ते तथेति प्रत्युपस्थित-

[ विवरणम् ]

 ननु च नास्येवासौ एकप्रत्ययविषयः शब्दादिः । एतत्तु सर्वं विज्ञानपरिजृम्भित्वपिव, विज्ञानभावभावत्वात् । कथं तद्भावभावित्वमित्याह-नास्त्यर्थो विज्ञानविसहचर: पृथग्विज्ञानादुपलब्ध: पृथग्भावी वा ! विज्ञानमर्थविसहचरं पृथक्त्वेनोपलब्धं पृथग्भावि वा अस्ति। तस्मादर्थो विज्ञानव्यतिरेकेण नास्तीति प्रतिजानीमहे ।

 प्रमाणमप्यत्र भवति- विज्ञानव्यतिरेकेण नास्ति ग्राह्यं वस्तु, विज्ञानव्यतिरेकेणानुपलभ्यमानत्वात्, विज्ञानस्वरूपवत् । बाह्यार्थशून्यानि जाग्रद्विज्ञानानि, विज्ञानत्वात्, स्वप्नसमय विज्ञानवत् । विज्ञानपरिकल्पिता वा जाग्रद्विषयाः, विषयत्वात्, स्वप्नविषयवत् । विज्ञानं वा विषयाव्यतिरेकि, विज्ञानत्वात्, स्वप्नविज्ञानवदिति ॥

 यद्येवं स्यात् किं नश्छिन्नं स्यात् ? पुरुषस्य दृश्यवियोगात् कैवल्यं प्रस्तुतं न सिद्धं स्यात् ॥

 यथा उपलभ्यमानस्य स्तम्भादेरभावः एवमुपलभ्यमानत्वाद्विज्ञानस्याप्यभावः । तदभावे च लिङ्गाभावादुपलब्धुरप्यभावः प्राप्नुयादिति, कस्य कैवल्यम् ? केन दृश्येन वियोगः स्यात् ? केन सम्प्रयोगे वा बन्धः प्रतिज्ञायेत ? बन्धाभावे चाभ्युदयनिःश्रेयसार्थप्रवृत्तिफलता न प्रसज्येत ।

 किं चान्यत्-विज्ञानव्यतिरेकेणार्थों नास्तीति ब्रुवता विज्ञानमर्थ इति चैकः पदार्थेऽभ्युपगतो भवति, यथा-अग्निरनल इति । एवं च सति विज्ञानं ग्राह्यं ग्राहकम्, अर्थेः ग्राह्येो ग्राहकश्चेति नाममात्रे त्रिप्रतिपत्तिः, न पुनरेकस्य ग्राह्मग्राहकभावः प्रत्याख्यायते । तथा च सतेि पुरुषस्यापि ग्राह्मग्राहकभावः प्राप्तः । तथाऽपि विप्रमोक्षानवक्लृप्तिः, इत्येवमादयो भूयांसो दोषाः प्राप्नुवन्ति ॥

 तस्मात् अमुया दिशा अनेन न्यायाभासबलेन ये वस्तुस्वरूपमपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमम्, न तु परमार्थतोऽस्तीति,


1. -नया