पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/381

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३९
कैवल्यपादः चतुर्थः

[ भाष्यम् ]

प्रख्या 1प्रवृत्तिस्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनैकः परिणामः श्रोत्रे2न्द्रियं, ग्राह्यात्मकानां 3शब्दभावेनैकः परिणामः शब्दो विषय इति । शब्दादीनां मूर्तिसमानजातीयानामेकः परिणामः पृथिवीपरमाणुस्तन्मात्रावयवस्तेषां चैकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिर्भूतान्तरेष्वपि स्नेहौष्ण्यप्रणामित्वावकाशदानान्युपादाय सामान्यमेकविकारारम्भः समाधेयः ॥

[ विवरणम् ]

 प्रख्याप्रवृत्तिस्थितिशीलानां गुणानां ग्रहणात्मकानां'सत्त्वप्राधान्यात् बोधात्मनामस्मितासंस्थानानां करणभावेनैकः परिणामः श्रोत्रेन्द्रियम् । यथा विरुद्धानां तैलवर्तितेजसां प्रदीपः । तथा त्वगादीन्द्रियेषु पुरुषार्थेतिकरणीये प्रयुक्तानामेकैकमेिन्द्रियं परिणाम इति योज्यम्।

 तथा ग्राह्यात्मकानां गुणानां तमःप्रधानानां शब्दभावेनैकः परिणामः शब्दो विषयः । तथा शब्दादीनां मूर्तिसमानजातीयानां समानाम् एक: गन्धतन्मात्रावयवः परिणामः पृथिवीपरमाणुः । तेषां परमाणूनाम् एकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिः ॥

 भूतान्तरेष्वपि योज्यम् । शब्दत्स्पर्शरूपरसानां स्नेहसमानजातीयानाम् [एकः परिणामः रसतन्मात्रावयवः जलपरमाणुः । तेषांपरमाणूनामेकः परिणामो जलम्] ॥  शब्दस्पर्शरूपाणामुष्णत्वसमानजातीयानामेकः परिणामो रूपतन्मात्रावयवः तेजःपरमाणुः । तेषां परमाणूनामेकः परिणामो वह्निः सलिलेन्धनो दारुशकलदीपनश्च ॥

 तथा शब्दस्पर्शयोः प्रणामित्वसमानजातीययोः स्पर्शतन्मात्रावयवः वायुपरमाणुरेकः परिणामः । तेषां परमाणूमामेकः परिणामः वायुः सप्त मरुद्भणाश्च ॥ आकाशः । इत्येवमुक्रेन मार्गेण स्नेहौष्ण्यप्रणामित्वाद्युपादाय सामान्यमेकविकारारम्भः समाधेयः योज्यः । तस्माद्बहूनामप्येकपरिणामित्वादेकविषयत्वं, ग्राह्यग्रहणनियमश्च सर्वमुपपद्यते ॥


1.क्रियास्थि - 2.त्रमि- - 3. शब्दतन्मात्र