पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/38

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

xxxiv

परमार्थः ।""न साङ्ख्यज्ञानेन वेदनिरपेक्षणेति--प्रधानादिविषयेणेत्यर्थः । द्वैतिनो हि ते साङ्ख्या योगाश्व----ये प्रधानादिपरतया तत् शास्त्रं व्याचक्षते इत्यर्थ: ।' इत्यादिग्रन्थेन भगवत्पादाशयोद्धाटनेन योगशास्त्रस्य प्रामाण्यं प्रत्यतिष्ठिपत् । प्रधानादिपरतया साङ्ख्ययोगशास्त्रं व्याचक्षाणानामेव परमनाप्तत्वम्, न योगादिशास्त्राप्रामाण्यम्, इति च स्फुटीचकार ॥

 तत्रैव परिमळेऽपि "योगशास्त्रे योगनिरूपणं श्वेताश्वतरोपनिषदाद्युपदिष्टयोगप्रपञ्चनरूपम्" इत्युक्तम् ॥

 इत्थमौपनिषदात्मतत्त्वज्ञानं प्रति शास्त्रान्तरापेक्षया विशिष्योपकारकत्वातिशयसद्भावादेव च हेतोः वेदान्तदर्शनप्रवर्तको भगवान् वेदव्यासः तद्भाष्यकृत् भगवत्पादश्च उभयेऽपि योगभाष्यं तद्विवरणं च चक्रतुरिति सुदृढं विश्वसिमः ॥

 न केवले भगवान् वेदव्यासो भगवत्पादश्च योगभाष्यतद्विवरणकर्तारौ औपनिषदात्माद्वैतदर्शनावलम्बिनौ, योगसूत्रकृत् भगवान् पतञ्जलिरपि हि तथैव । यतः तेन " कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् "(यो• सू २-२२) इति सूत्रे जगन्मिथ्यात्वं व्यवहृतम् । अस्य च सूत्रस्य जगन्मिथ्यात्वाभिप्रायकत्वं प्रदर्शितं श्रीमाधवाचार्यैः सूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डाष्टमाध्यायविवरणावसरे--'यद्यपि व्यवहारदशायां प्रकृतिप्राकृतलक्षणप्रपञ्चस्य सत्यत्वम् आत्मनानात्वं च व्यवहरन्ति (साङ्ख्यपातञ्जलादयः) तथाऽपि कैवल्यदशायां स्वरूपप्रकाशव्यतिरेकेण तस्य सर्वस्यानवभानं वर्णयन्ति । आत्मयाथात्म्यज्ञानलक्षणायाः प्रकृतिपुरुषविवेकख्यातेर्हि कैवल्यम् । तथाविधज्ञानोत्तरकालं प्रकृतिप्राकृतार्थात्मकं जगत् सर्वथाऽनवभातं चेत्। तदस्तित्वं कथं निश्चीयेत ? ज्ञेयसिद्धेः ज्ञानाधीनत्वात् । अतः आत्मयाथात्म्यज्ञानेन निवर्तितमेव तत् । तस्मात् प्रपञ्चस्यानवभातस्थ ज्ञाननिवर्त्यत्वेन मिथ्यात्वमवश्यमभ्युपगन्तव्यम् । ज्ञाननिवर्त्यानां शुक्तिरूप्यादीनां मिथ्यात्वदर्शनात् ॥

 किं च, "कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्"इति पातञ्जलं सूत्रम् । अनेन च प्रकृतिप्राकृतिकात्मकं जगत् मुक्तापेक्षया नष्टं तदितरापेक्षया विद्यमानमेवेतेि, पुरुषविशेषापेक्षया, तस्याभावसद्भावौ प्रतिपाद्येते । एतच्च तन्मिथ्यात्वेऽवकल्पते । पुरुषविशेषमपेक्ष्य एकस्यैव