पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/379

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३७
कैवल्यपादः चतुर्थः

[ सूत्रम् ]

ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥

[भाष्यम्]

त स्वल्वमी त्र्यध्वानो धर्मा वर्तमाना व्यक्तात्मनोऽतीतानागताः सूक्ष्मात्मानः षडविशेषरूपाः ।

[ विवरणम् ]

 अथोपचारात् सिद्धकपालावस्था अवयवा भविष्यति घटो भूतो घट इति चापदिश्येरन् सम्बन्धात्, तद्यथा-अन्नं प्राणा इति, अत्रपि यथा कुलालचक्रदण्डसूत्रादिषु घटो नास्ति, तथा पिण्डकपालेष्वपीति तदभावाविशेषे च कपालेषु घटोऽतीत इति व्यपदेशो न कुलालादिष्विति नियमानुपपत्तिः ॥

 न चापि विद्यमानानां साधनानां घटादिनिष्पादिनामप्यविद्यमानैरुत्पाद्यैर्घटादिभिः सम्बन्ध उपपद्यते । न चासति सम्बन्धे घटोत्पादनाभिप्रायेण कारकप्रवृत्तिः ॥

 अथायुतसिद्धः समवायलक्षणः सम्बन्धो जन्यानां कारणानां च न प्रतिषिध्यत इति चेत्-न-युतसिद्धायुतसिद्धत्वस्य समानकालभाविनां वस्तूनां दर्शनात् । न भावाभावयोः कचिदपि युतसिद्धत्वमयुतासिद्धत्वं वा दृश्यते ॥

 तस्माज्जन्यजनकानामपि सम्बन्धाभ्युपगमाद्विद्यमानत्वमेवेति, उत्पत्तेः प्रागूर्ध्वं च विद्यते कार्यम्, वस्त्वन्तरसम्बन्धात्, प्रसिद्धघटादिवत् । उपलप्स्यमानत्वादुपलब्धत्वाञ्च, अपवरकस्थघटदिवत् । उद्दिश्य कर्त्रा प्राप्यत्वात्, देशान्तरवत् । तथा कर्तृव्यापारप्राप्यत्वाच्चेति ॥

 किं च, न लौकिका अतीतानागतशब्दाभ्यां गगनकमलिनविदविद्यमानमर्थ प्रतियन्ति प्रतिपादयन्ति वा । तस्मादतीतमनागतं च स्वरूपतो विद्यत एव । नाभूत्वा भावस्त्रयाणामध्वनाम् । किं तर्हि ? विद्यमानानामेवाभिव्यक्तिः ॥

 तस्माद्यक्तिरूपेण वासनानामत्यन्ताविनिवृत्तिः । गुणरूपेण तु सतीनामपि कार्यासमर्थत्वान्न कैवल्याभावदोषः । नापि सिद्धान्तविरोधः || १२ ॥

 अतीतानागतवर्तमानधर्मा: केन पुना रूपेण सन्तीति तत्प्रतिपादनार्थमाह- ते व्यक्तसूक्ष्मा गुणात्मानः । ते खल्वमी त्र्यध्वानः अतीतानागतवर्तमानाध्वत्रयोपारूढाः धर्माः वर्तमानाः वर्तमानलक्षणोपारूढाः व्यक्तात्मानः

43