पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/373

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३१
कैवल्यपादः चतुथैः



[भाष्यम् ]

चितबलव्यतिरेकेण शारीरेण कर्मणा शून्यं क: कर्तमुत्सहेत ? समुद्रमगस्त्यवद्वा पिबेत् ॥ १० ॥

[सूत्रम् ]

हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥११॥



[ भाष्यम् ]

 हेतुर्धर्मात्सुखमघर्माद्दुःखं, सुखानुश्यी १'रागो दुःखानुशयी'२ द्वेषस्ततश्च प्रयत्नस्तेन मनसा वाचा कायेन वा परिस्पन्दमानः परंमनुगृह्णात्युपहन्ति वा । ततः पुनर्धर्माधर्मौ सुखदु:खे रागद्वेषाविति प्रवृतमिदं षडरं संसारचक्रम् ।

[विवरणम् ]

चित्तबलव्यतिरेकेण कः कर्तुं शक्नोति । कश्च पिबेत् समुद्रमगस्त्यवत् .. इति । अतो मानसबलमेव बलम् । न शारीरम् ।। **तस्मात् मानसं परमं वदन्ति' इति श्रुतेः । तथा च भगवानाबभाषे--  "श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।।"  "सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते" इति ॥ १० ॥

 कथं पुनस्तासां वासनानां निवृत्तिः । अनादिरूढत्वात् न निवृत्तिरासां घटामाढौकते । न च तन्निवृत्तिमन्तरेण कैवल्योपपत्तिरित्यत उच्यते-हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदमावः । हेतुश्च फलं चाश्रयश्वालम्बनं च हेतुफलाश्रयालम्बनानि । तैः संगृहीतत्वादुपग्रथितत्वादेषां हेत्वादीनामभावे तदभावे वासनानामभावः । तस्मादुपपद्यते वासनानां निवृतिः ॥

 कोऽसैी हेतुः? इत्याह-धर्मस्तावदविद्याविनमितचेतसाम्। ततो धर्मात् सुखम् । सुखानुशयी रागः । एवमविद्यात एव निषिद्धाचरणात् अधर्मः । ततो दु:खम् | दुःखानुशयी द्वेषः । ततः सुखोपार्जने दु:खपरिहारे च पूर्ववदेव प्रयत्नः । तेन प्रयत्नेन वाचा कायेन परिस्पन्दमानः परमनुगृह्णात्युपहन्ति च । पुनश्च ततः परानुग्रहपरपीडनाम्यां धर्माधर्मौ । ताभ्यां सुखदुःखे। ताभ्यां च रागद्वेषौ पूर्ववदेव । ततः प्रयत्नः ॥


1. सुखाद्रा 2. दु:खाद्-