[भाष्वम ]
मात्रमित्यपरे प्रतिपन्नाः । तथा चान्तराभावः "१संसरणञ्च युक्तं इति ॥
वृत्तिरेवास्य विभुनश्चितस्य संकोचविकासिनीत्याचार्याः ॥
तच्च धर्मादिनिमित्तापेक्षम् । निमित्तं च द्विविधम्-बाह्ममाध्यात्मिकं च । शरीरादिसाधनापेक्षं बाह्यं २ स्तुत्यभिवादनादि, चित्तमात्राधीनं श्रद्धाद्याध्यात्मिकम् । तथा चोक्त्तम्-ये चैते मैत्र्यादयो ध्यायिनां विहारास्ते, बाह्यसाधननिरनुग्रहाः°३ प्रकृष्टं धर्ममभिनिर्वर्तयन्ति । तयोर्मानसं बलीयः । कथं? ज्ञानवैराग्ये केनातिशय्येते ? दण्डकारण्यं च
[ विवरणम् ]
मरणादुत्तरकालं जन्मनश्च प्रागेतस्मिन् अन्तराले भवतीत्यन्तराभावः संसरणं सञ्चरणं येन सञ्चरति तदपि शरीरमातिवाहिकं चित्तस्याविभुत्वे युक्तमिति ब्रुवन्ति। वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकासिनीत्याचार्याः । आचार्यग्रहणम् उपपत्तिमत्वात् पूजार्थम् । चित्तस्य स्थितिर्गतिश्च परिणामित्वाद्विभुत्वेऽपी न्द्रियाणां चोपपद्यते योगिनां च विकरणभावः सर्वज्ञत्वं विभुत्वे घटते ।
न चोपभोगशून्यस्यातिवाहिकशरीरस्य कल्पनायामस्ति प्रमाणम् । शशविषाणवदनुपलभ्यमानत्वात् ।। "न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति” इति श्रुतेः । तथा ** अथ यो हैताननन्तानुपास्ते ” इति श्रुतिः करणव्यापित्वं ख्यापयति ॥
तच्च संकोचविकासित्वं वृत्तेः धर्मादिनिमित्तापेक्षम् । निमित्तं च द्विधा बाह्ममाध्यात्मिकं च । शरीरादिसाधनापेक्षं बाह्यं स्तुत्यभिवादनादि कर्म । किं पुनराध्यात्मिकम्? आह-केवलचित्तमात्राधीनं श्रद्धादि ॥
तथा चोक्त्तम्-ये चैते मैत्र्यादयो ध्यायिनां विहारा: चित्तव्यापाराः चेष्टितानि ते बाह्यसाधननिरनुग्रहाः बाह्यसाधननिरपेक्षाः केवलचित्तमात्रनिर्वृत्ताः प्रकृष्टं धर्ममाभिनिर्वर्तयन्ति ॥
तयोः बाह्याध्यात्मिकयोर्निमित्तयोः मानसम् आध्यात्मिकं मैत्र्यादिचित्ताभिनिष्पन्नं निमित्तं बलीयः । कथम् इति ? ज्ञानवैराग्ये केनातिशय्येते ? न केनापीत्यर्थः । यतस्तृतीयपादानुक्रान्ताविभूतजातं ज्ञानवैराग्यसाध्यम् । दण्डकारण्यं
1. संसारश्च युक्त 2. स्तुतिदानाभि- 3. -हात्मान: